धैर्यं विधूय तनुते हृदि रागबन्धं
शंभोस्तदेव विपरीतया मुनीनाम् ॥ ६१॥
जन्तोः सकृत्मणमतो ज[१]गदीड्यतां च
तेजस्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि [२]माक्षिकझरीमिक वैस्वरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२ ॥
कादम्बिनी किमयते न जलानुषङ्गं
भृङ्गावली किमुररीकुरुते न पद्मम् ।
किं वा कलिन्दतनया सहते च गङ्गां
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥
का[३]कोलपावकतृणीकरणेऽपि [४]दक्षः
कामाक्षि [५]बालकसुधाकरशेखरस्य ।
अत्यन्तशीतलतमोऽप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥
कार्पण्यपूररसवर्धितमम्ब मोह-
कन्दोद्गतं भवमयं विषपादपं मे ।
तुझं छिनत्तु तुहिनाद्रिसुते भवत्याः
काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥
कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात्
तत्रापि देवि लभते सुकृती कदाचि-
दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥