पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
शृङ्गारवैरास्यतरङ्गिणी ।

यत्ते न कारयति । यथा अटव्यां तस्करः पश्चिकां लताभिर्बद्ध्वा सर्वस्वं गृह्णाति तथा मृगेक्षणापि कण्ठाग्रहणं कृत्वा भरान्मुक्तिप्राप्तिं कारयतीति भावार्थः-

इयं वारंवारं द्युतितुलितरोलम्बवलयं
 न वक्रं भूचक्रं चलयति मृगा[१] क्षी मम पुरः ।
कु[२]धीकारागारापसरणमतिं मां [३]स्खलयितुं
 प्रपञ्चत्पञ्चेषोर्वहति निविडं लोहनिगत्ड’ ॥ ४२ ॥

 इयं समाक्षी सुगलोचना स्त्री मम पुरः पुरस्तात् ककं भूच वारंवार अनुवेलं न चलयति । कथंभूतं भूचक्रम् । श्रुतितुलित रेलम्बवलयम् । धुत्था कान्त्या तुलितः समानीकृतो रोलम्बानो भ्रमराणां वलयो वृत्तता येन । किमेतत्तदाह-मा स्खलयितुं गमनाभादं कर्तुं पञ्चयोः पञ्च इषवो बाणा यस्थ तादशस्य कामस्य लिबिई दुःसहं लोहनिगई वहति धारयति । कि भूतं लोहनिगडम् । प्रपञ्चत् प्रपञ्चयुक्तम् । कथंभूतं माम् । कुधीकारागारपसरणमतिम् । कुत्सिता धीः कुधीः सैव कारागारं बन्दिस्थानं तस्मादपसरणे दूरगमने मंतिव तम् । अथा चौरस्त्र लोहनिगई क्षिप्त्वा कारागार मिप्यते, तथा मामपि वशीकर्तुं भूच कामख निगडं धत्ते इत्यर्थः ॥

यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे
 नाय हारश्चकितहरिणीलोचनायाश्चकास्ति
नामौरन्धे विहितवसतिर्योऽस्ति कैदपसर्प-
 स्तन्मुक्तोऽयं स्फुरति रुचिरः किं तु निर्मोकपट्टः ॥ ४३ ॥

 है मित्र, वयं इतोऽस्मात् । अन्यन्त्र द्रुततर अतिशीनं यामी गच्छामः 'चकितह रिधोलोचनायाः। चर्किता हरिण तथा लोचने इत्र लोचने यस्यलस्थाः कण्ठपीठे यत् चकान्ति शोभते भयं हारों नास्ति किंतु यः कंदर्पसर्पः कंदर्षः कामः स एव सर्पस्तन्मुक्तस्तेन सर्पण मुक्तस्तन्युक्तः । अयं इचिरोमनोज्ञः निर्मोकपदः कञ्जुकः स्फुरति चकास्ति । कथंभूतः कंदपैसपः । नाभी


  1. "चलाक्षी' इति मूलपुस्तकपाठः
  2. क्रुधा' इति मूलपुस्तकंपाठः
  3. छलयितुं प्रपञ्चा इति मूलपुस्तकपाठः