पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
काव्यमाला


मन्दसितैर्धवलिता मणिकुण्डलांशु-
 संपर्कलोहितरुचिस्त्वदपाङ्गधारा ।
कामाक्षि मल्लिकुसुमैनवपल्लवैश्च
 नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६ ॥
कामाक्षि शीतलकृपारसनिर्झराभ्य:-
 संपर्कपक्ष्मलरुचिस्वदपाङ्गमाला ।
गोभि:[१]: सदा पुररिपोर[२]मिलप्यमाणा
 दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७ ॥
हृत्पङ्कजं मम विकासयतु प्रमुष्ण-
 न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषङ्गजडतां जगतां धुनानः
 कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥
चक्षुर्विमोदयति चन्द्रविभूषणस्य
 कामाक्षि तावककटाक्षतमः प्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
 प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९ ॥
कामाक्षि वीक्षणरुचा युधि निर्जितं ते
 नीलोत्पलं निरवशेषगताभिमानम्।
आगत्य तत्परिसरं श्रवणावतंस-
 व्याजेन नून[३] मभयार्थनमातनोति ॥ ६० ॥
आश्चर्यमम्ब क्दनाभ्युदयावलम्बी
 कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।


  1. दृष्ठिभि:, (पक्षे) धेनुभिः
  2. अभिलक्ष्यमाणा' इति क-ख-ग पाठः
  3. अभयार्थित इति घ-पाठ: