पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
काव्यमाला


अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिश:
[१] बुध्यते सुकृतचमूं जिगीषतः समुद्यतं बलभरमेनमेनसः ॥२३॥

 अयं प्रत्यक्षगतो बालिशो मूर्खौ जनो भृगीदृशा स्त्रीणां वलयभरं वलयानां भरस्तं अधिभुजवल्लि भुजावेव वल्लिस्तस्यामिति अधिभुजवल्लि । विभक्त्त्यर्थेऽव्ययीभावः । भुजलतायामित्यर्थः । विलोकते. पश्यति । एनं वलयभरं एनसः पापस्य समुद्यतं सावधानीभूतं बलभरं सेनासमूहं न बुध्यते । कथंभूतस्य एनसः । सुकृतचमूं सुकृतस्य शीलादेः चमूः सेना तां जिगीषतः जेतुमिच्छतः । कथं वलयभरं बलभरमिति तत्रोच्यते. कथंभूतं वलयभरम् । अयं न विद्यते यो यकारो यस्मिन् सः अयस्तमयम् । यकाररहितमित्यर्थः । रूचिरा नाम च्छन्दः ॥

ये दृक्पथे तब पतन्ति नितम्बिनीनां
 कान्ताः करा जडिमपल्लवनप्रवीणाः ।
नो वेत्सि तान्किमपापुरप्रयाण-
 प्रत्यूहकारणतया करकानवश्यम् ॥ २४ ॥

 तव दृक्पथे दृष्टिमार्गे नितम्बिनीनां स्त्रीणां कान्ता मनोज्ञाः करा हस्ताः । नितम्बिनीनामिति संवन्धे बहुत्वात् करा इति बहुत्वम् । पतन्ति अवलोकन नतां गच्छन्ति । कथंभूताः कराः। जडिमपल्लवनप्रवीणाः जडिम्नो जडताया यत्पल्लवनं प्रकटीकरणं तत्र प्रवीणाश्चतुराः । तान् करान् अवश्यं निश्चयेन करकान् धनोपलान् किं नो वेत्सि न जानासि । कया। अपवर्गपुरप्रयाणप्रत्यूहकारणतया अपवर्गो मोक्षः स एव पुरं नगरं तस्मिन् प्रयागं गमनं तन्न यः प्रत्यूहो विघ्नस्तत्र यत्कारणं निदानं तस्य भावस्तत्ता तया अपवर्गपुरप्रयाणप्रत्यूहकारणतया । गमनकाले करकवृष्टिः स्वेष्टसिद्धौ विघ्नकारणं प्रसिद्धमेव । उक्तं च वसन्तराजशाकुने -'श्रीणचन्द्रतिथि दुःसहानलं दूषित धरणिकम्पनादिना । पूर्ववज्जलदसंकुलाम्बर: वर्जयेच्छकुनदर्शने दिनम्" इति । अकालवृष्टिर्गमने निषिद्धा । करकपतनं त्ववश्यं वयमेव । करान् करकान् कथामिति प्रश्नोत्त-


  1. 'जिगीषतः सुकृतचम समुद्यत न बुध्यते इति मूलपुस्तकपाठः