पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
शृङ्गारवैराग्यतरङ्गिणी ।


विते विध्वस्तं नाशितं धर्म एवं अन्तरजीवितं येन तस्मिन् । अन्तरप्राणनाशक इत्यर्थः । अहिंस्तु कण्ठावसक्तः सन् बहिःप्राणान्नाशयति, स्त्रीणां बाहुः कण्ठावसक्तः सन् अन्तरप्राणनाशं विधत्ते । अतः सर्पादप्यधिकतरदुःखदं स्त्रीकृतालिङ्गनमित्यर्थः । अत्र नवाहावित्युभयत्र चित्रकृत । क्वयोरभेदस्तु आलंकारिकैरिष्ट एव ।

कोऽयं विवेकस्तव यन्नतभ्रुवां दोषावगूढः प्रमदं विगाहसे ।
[१] यतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोर्विवेचनम् ॥ २१ ॥

 हे साधो, अयं तव को विवेकः यत् नतभ्रुवां नते नम्रीभूते भ्रुवौ यासता नतभ्रुवस्तासां स्त्रीणां दोषा बाहुनावगूढ आलिङ्गितः सन् त्वं प्रमदं प्रकृi "ष्टमद विगाहसे प्राप्नोषीत्यर्थः । यतो. यस्मात् स्मरातङ्कपरीतचेतसां स्मरः कामः स एव आतङ्को रोगम्तेन परीतं व्याप्तं चेतो येषां तेषां पुरुषाणां सुन्दरासुन्दरयोः समीचीनासमीचीनयोः किं विवेचनम् । अपसारादिरोगग्रस्तानां शुभाशुभे विवेको न भवतीति युक्तमेव । पक्षे. दोषैरवगूढो दोषावगूढःं विवेकदोषयुक्त इत्यर्थः ॥

हंहो विलोक्य परमङ्गदमङ्गनाना-
 मानन्दमुहसि किं मदनान्धबुद्धे
सत्यं विवेकनिधनैकनिमित्तमेत-[२]
 न्मेधाविनो हि परमं गदमुद्गृणन्ति ॥ २२ ॥

 हंहो इति संबोधने । हे मदनान्धबुद्धे, मदनेन कामेन अन्धीभूता बुद्धिर्यस्य तस्य संबोधने । अङ्गानानां प्रधानमङ्गं यासां तासामङ्गनानां परमुत्कृष्टं अङ्गदं केयूरं विलोक्य दृष्ट्वा आनन्द किमुद्वहसि पाप्नोषिः । मेधाविनः पण्डिता एतत् अङ्गदः परममुत्कृष्टं गदं रोगमुद्गृणन्ति प्रजल्पन्ति तत्सत्यम् । कथंभूतं गदम् । विवेकनिधनैकनमित्तं विवेको ज्ञान तस्य निधनस्य नाशनस्य एकमद्वितीयं निमित्तं कारणम् । गदो हि निधनैकहेतुर्भवत्येव । अत्र पद्ये उभयत्र परमङ्गदमिति पदं भिन्नार्थत्वाच्चिकृत् ॥


  1. 'यदा' इति मूलपुस्तकपा
  2. 'एनं' इति मूलपुस्तकपाठः