पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
शृङ्गारवैराग्यतरङ्गिणी।


पी[१]नोन्नतं स्तनतटं मृगलोचनाया.
 आलोकसे नरहितं यदपूर्वमेतत् ।
मोहान्धकारनिकरक्षयकारणस्य
 विधास्तदस्ततटमेव विवेकमानोः ॥ १७ ॥[२]

 यत् मृगलोचनायाः हरिणाक्ष्याः स्त्रियाः एतत् स्तनतटं कुचद्वन्दं पीनोन्नत पीन च तदुन्नतं च पीनोन्नतम्, पुनः नरहितं नरेभ्यो हितम् । पुनः अपूर्वम् । प्रतिक्षणं चमत्कारहेतुत्वात् त्वं आलोकसे पश्यसि, तत्स्तनतटं विवेकभानो विवेकसूर्यस्य अस्ततटं त्वं विद्याः । अत्र ज्ञानसूर्योऽस्ततामेष्यतीत्यर्थः । कथंभूतस्य विवेकभानोः । मोहान्धकारनिकरक्षयकारणस्य मोह एवान्धकारन्तस्य यो निकरः समूहस्तस्य क्षयकारणं तस्य मोहान्धकारनिकरक्षयकारणस्य । स्तनतटमिति विशेषणद्वयेन अस्ततटं साधयति-नरहितं तेन नकारेण रहितम् , पुनः अपूर्व ; अकारः पूर्वो यस्य तत् अपूर्वं एतादृशं स्तनतटं अस्ततटं स्यादेवेत्यर्थः ॥

कंदर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाच्या मया
 न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मा स्म भूः
किं त्वा जन्म यदर्जितं बहुविधामभ्यस्य कष्टक्रियां
 हस्तोऽयं सुकृतस्य तस्य सहसादायीति संचिन्तये ॥ १८ ॥

 मया मृगाक्ष्याः स्त्रियाः कुचद्वन्द्वे स्तनयुग्मे हतो न्यस्त करः स्थापितः । कथंभूते कुचद्वन्द्वे कंदर्पद्विपकुम्भचारूणि कंदर्प एवं द्विपस्तस्य कुम्भो गण्डस्थलं तद्वच्चारू मनोज्ञं तस्मिन्कंदर्पद्विपकुम्भचारुणि । इति हेतोः प्रमोदमदि-


  1. 'पीनोन्नतं नरहितं यदपूर्वमेतदालोकसे स्तनतटं मृगलोचनायाः' इति मूलपुस्तकपाठः
  2. मूलपुस्तकेऽस्मात्पद्यादनन्तरं एतस्या युवतेः पयोधरयुगं वल्गन्महात्मन्निदं चके योधयुगः बिरञ्चिरपरं विश्वापकारोधतः । कुर्वद्धर्मगुणेष्वयोगमनतिकामन्निजां स्तब्धतां यद्दूदपि कल्पगत्युपशमन्प्राणापनोदं नृणाम् ॥ अयं श्लोकोऽधिकोऽस्ति: अत्र अपरमन्यत्पयोधरयुगम् , अन्यत्र पकार-रेफरहितं पयोधरयुग योधयुगं भवति. वर्मगुणेति धनुर्जीवाबाणेषु योयं संबन्ध न करोतीत्यर्थः