पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
काव्यमाला ।

यत्र भागिरो वेदा यत्र धर्मोऽर्थसाधनम् ।
यत्र स्वप्रतिमा मानं तस्मै श्रीकलये नमः ॥ १०० ॥
काममस्तु जगत्सर्वं कालस्यास्य वशंक्दम् ।
का[१] लकालप्रपन्नानां कालः किं नः करिष्यति ॥ १०१ ॥
कविना नीलकण्ठेन कलेरेतद्विडम्बनम् ।
रचितं विदुषां प्रीत्यै राजास्थानानुमोदनम् ॥ १०२ ॥

 इति श्रीनीलकन्यदीक्षितविरचितं कलिखिडस्थानम् ।



श्रीसोमप्रभाचार्यविरचिता

क्षृङ्गारवैराग्यतरङ्गिणी।

सुखबोधिका वृत्त्या समेवा।


   श्रीपार्श्वनाथ प्रणिपत्य भक्त्या पुरि स्थितं श्रीकलवर्धिकायाम् ।

   शृङ्गारवैराग्यतरङ्गिणी या व्याख्यानत्रो व्याक्रियते सत्रा सा ॥

श्रीसोमप्रभाचार्या वैराग्यवासमा शृङ्गार दूषयस्तः शृङ्गारवैराग्यतरङ्गिगीनानानं अन्धं कर्तुकामाः नीरूप निन्द्यामिति प्रतिपादयन्त ऊचुः--

धर्मारामवानिधूमलहरीलावण्यलीलाजुष-
 स्तन्वङ्ग्या यमितान्वि[२] लोक्य तदही वालाकिमुत्कण्ठसे ।
व्यालान्दर्शनतो[३]ऽपि मुक्तिनगरप्रस्थानविनक्षमा-
 न्मत्वा दूरममून्विमुञ्च कुशलं यद्यात्मनो वाञ्छसि ॥ १ ॥

अहो इयाश्चर्य । तन्वयाः । तनुः सूक्ष्ममङ्गं यस्याः सा तन्वगी। तस्याः स्त्रिया यमितान्बाद्वान्वालान्केशान्विलोक्य दृष्ट्वा किमुत्कण्ठसे किमुत्कण्ठों


  1. कालकालः शिवः
  2. विलोकितुमहो' इति मूलपुस्तकपाठः
  3. निमुक्रिनगर इति मूलपुतकापा