पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
काव्यमाला ।


जीयन्ति राजविद्वेषा.जीर्यन्त्यविहितान्यपि ।
आकिंचन्यबलाढ्यानामन्ततोऽस्मापि जातिः ॥ ५६ ॥
नास्य चोरा न पिशुना न दायादा न पार्थिवाः ।
दैन्य राज्यादपि ज्यायो यदि तत्व प्र[१]बुद्धयते ॥ ५७ ॥
प्रकाशयत्यहंकार प्रवर्तयति तस्करान् ।
प्रोत्साहयति दायादालक्ष्मीः विचिदुपस्थिता ॥ ५८ ॥
विडम्बयन्ति ये नित्यं विदग्धान्धनिनो अनान् ।
त एव तु विडम्व्यन्ते श्रिया किंचिदुपेक्षिताः ॥ ५९ ॥
प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरामनि !
कीबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ६० ॥
शृण्वन्त एवं पृच्छन्ति पश्यन्तोऽपि न जानते।
विडम्वनानि धनिकाः स्तोत्राप्रीत्येव मन्यते ॥ ६१ ॥
आवृत्य श्रीमदेनाधानन्योन्यकृतसंविदा ।
स्वैर हसन्ति पावस्था बालोन्मत्तपिशाचवत ॥ ६२ ॥
स्तोतव्यैः स्तूयते नित्यं सेवनीयैश्च सेव्यते
न बिभेति न जिहेति तथापि धनिको जनः ॥ ६३ ॥
क्षणमात्र प्रहावेशो याममात्रं सुरामदः ।
लक्ष्मीनदस्तु मूर्खाणामा देहमनुवर्तते ॥ ६४ ॥
श्री समर्थमार्स वा चेधित्वा विनिवर्तते
विकारस्तु स्वारब्धो नित्यं लशुनगन्धवत् ॥ ६५ ॥
कण्ठे महा कोरबजो हृदि ताम्बूलजो मदः ।
लक्ष्मीमदस्तु सर्वाङ्ग पुत्रदारमुखेण्यापि ॥ ६६ ॥


  1. विबुध्यते इति पार