पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
कलिविडम्बनम् ।

भायो ज्येष्ठा शिशुः श्यालः क्ष्वक्ष्रः स्वातन्यवर्तिनी।
श्वशुरस्तु प्र[१]वासी च जामानुर्भाग्य [२] कारणम् ॥ ४५ ॥
मूषणैर्वसनैः पान्नैः पुत्राणामुपलालनैः ।
सकृदागत्य गच्छन्ती कन्या निष्टि मन्दिरम् ॥ ४६॥
गृहिणी खुजन बक्ति शुष्काहारं मिताशनम् ।
पतिपक्ष्यांस्तु बहाशान्क्षीरपस्तिस्करानपि ॥ ४७ ॥
भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता ।
अशान्तकलहो नाम योगोऽयं गृहमेधिनाम् ॥ ४८ ॥
भार्ये द्वे बहवः पुत्रा दारिद्यं रोगसंभवः ।
जीर्णोच मातापितराचेकैकं नरकाधिकार ॥ ४९ ॥
स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा । विनश्यति ।
अहो महदिदं भूतमुत्तमभिशब्दितम् ॥ ५० ॥
अन्तकोऽपि हि जन्तूनामन्तकालमपेक्षते ।
न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ॥ ५१ः ।।
न पश्यामो मुखे दंष्ट्रां न पाश वा कराञ्चले
उत्तमर्णमवेक्ष्यैव तथाप्युद्विजते मनः ॥ ५२ ॥
शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् ।
मृत्योमृत्युंजयध्यानं दारिद्रये तु न किंचन ॥ ५३ ॥
शक्ति करोति संचारे शीतोष्णे मर्षयत्यति ।
दीपयत्युदरे बहिं दारिद्यं परमौषधम् ॥ ५४ ॥
गिरं स्खलन्ती मीलन्ती दृष्टिं पादौ विसंस्फुलौ
प्रोत्साहयति याच्मायाँ राजाज्ञेव दरिद्रता ॥ ५५ ॥


  1. 'प्रवासीति इति पाठः
  2. 'भाग्यधोरणी' इति पाठः