पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
काव्यमाला।


 त्रिलोकचन्द्रति । निलोकचन्द्रस्यात्मजः पुनः । आत्मजस्तनयः सूनुः' इत्यमरः । यः कृष्णारामः कृपारामाभिधस्तस्य सूनोः श्रीशिवरामनानः कृतिरियं नक्षत्रमाला । 'व' नक्षत्रमाला स्वात्साविंशतिमौक्तिकैः' इत्यमरः । सूरः पगिद्धतस्य धीमान्सूरिः कृती कृष्टिंः' इत्यमरः । अनल्पशोभा तनोतु । दिक्षु अथिता प्रतिद्धा अस्तु ॥

परिश्रमो व्याकरणे काव्यांदावपि यः कृतः।
दिगियं दर्शिता तस्य शिवराण सन्मुदे ॥
लक्ष्मीकीती रसामध्ये शिवरामप्रसादतः ।
कुरुला वसति शुक्रतुल्यभूपालपालिने ॥

अन्यान्मया विरचिता परिशीलअन्तु शीलान्विताः सुमनसो मनसो मुदे ते। यहटिशोधितमनल्पाचा समेतं जाम्बूनदं तदिह] मौल्यविशेषलभ्यम् ॥ काव्यानि पञ्च तनुतेऽपि च पञ्चसंख्याधीकास्तु सप्तदश चैक उणादिकोषः भूपालभूषणमथो रसरतहारो विद्याविलास इनपूर्वशरफलाधाः ॥

व्याख्या लक्ष्मीविलासाख्या लक्ष्मीप्रीत्यैव निर्मिता ।
यावश्चक्षत्रमालाम्ति सावतिष्टतु भूतले ॥

इति श्रीत्रिलोकचन्द्रामकृष्यपराससूनुशिवरामनिपाठिकृता लक्ष्मीविलासाख्यीकासमेता नक्षत्रमाला समाता ।



श्रीनीलकण्ठदीक्षितविरचितं

कलिविडम्वनम् ।


मैतव्य न बोद्धव्यं न श्राव्यं वादिनो वचः
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥ १ ॥
असंभ्रमो बिलज्जत्वमवज्ञा प्रतिवादिनि ।
हासो राज्ञः स्तवश्चेति पञ्चैते जयंहेतवः ॥ २ ॥