पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
काव्यमाला

मुदेऽस्तु |पक्षे—धरादा आत्मजा सीता |शेषाख्ये लक्ष्मणेन विशेषशोभा सौभ्रातृत्वात् |श्लेषालेकार:--‘वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृश | श्लोषोऽसौ इति लक्षणात् | वृत्त्यमुप्रास:--‘वर्णसाम्यमनुप्रासश्छेकवृत्तिगतो द्विधा |सोऽनेकस्च सकृत्पूर्व एकस्याय्यकृत्पर ||’ इति लक्षणात् | यमकालंकार:--‘अर्थे सत्यर्थभिन्नाना चर्णानां सा पुन: श्रुति: | यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥’ इति लक्षणात् | संभोगशृङ्गार: --‘अनुकूलौ निपेवेते यवान्योन्यं विलासिंनौ नाथक:--‘अनुकूलस्त्वेकनायिक:’ इति दशरूपकात् | उपजातिवृत्तम्—‘अपन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातचस्ता ? इति तल्लक्षणात् ॥

 गोत्रस्खलनेन मानवतीं प्रत्वाह—

   गोत्रस्खलने भ्रान्तिं भानिनि जानीहि केवलां भेऽत्र

   व्याख्यानतो विशेषप्रतिपत्ति: पाणिनीय इव ॥ २॥

 गोत्रेति | हे मानिनि, गोत्रस्खलने गोत्रं नाम तस्य स्खलने च्यवने मे मम केवलां भ्रान्तिं जानीहि | ननु गोत्रस्खलनं त्वदुक्ति: |मया भ्रान्त्या तन्नामग्रहणं कृतं न त्वहर्निशं तस्वामासक्तेरित्यपि त्वदुकिरेव |तत्र क्व प्रामाण्यसुररीकर्तव्यम् | तत्राह –व्याख्यानतो विशिष्टादाख्यानाद्विशेषस्येष्टस्य ??तिपतिर्बोध: |किमत्र मानं तत्रोपमारीत्याह—पाणिनीय इव | पाणिनीये सत्प्रोक्तशास्त्रे | एवं हि तत्रोक्ति:--ल ण् अ इ उ ण् सूत्रयोर्णकारस्यैवोपादानेन अ ण् उ ण् ग्रहणेषु संदेह: | तत्राह –‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्’ |व्याखानाच्छिष्टकृताद्विशेषस्यान्यतरार्थस्य प्रतिपत्तिर्निश्रय: हि संदेहादलक्षणम्’ |व्याख्यानाच्छिष्टकृताद्विशेषस्यान्यतरर्थस्य प्रतिपत्तिर्निश्रय: | हि यत: संदेहाच्छास्त्रमननुष्ठापकं न | अणुदित् – इत्यत्रैव परेण णकारेणाणूप्रत्याह |इण् तु सर्वत्र परेण | यदत्र परिभान्दुशेखरे दूषणं तदस्मत्कृते विधातिलासे द्र??मू | अत्र श्लोषालंकार:-क्ष्लेष: स एकवाक्येऽस्मिन्यत्रानेकार्थता भवेत् ‘ इति लक्षणात् |अत्र प्रमाणालंकारेषु शब्दप्रमाणालंकार:| क्ष्लौती पूर्णोपमा—‘साधर्म्यमुप?? भेदे पूर्णा लुप्ता च साग्रिमा | श्रौत्यार्थी च भवेदाक्ये समासे तद्धिते तथा |’ इति लक्षणात् |काव्यादर्शे तु दण्डिनेय घर्मोपमेति व्यवह्यता—‘इति घर्मोपमा साक्षात्तुल्यघर्मनिदर्शनात्’ इति|