एका पङ्कजिनी सुधाकरैर्भिता परं मुद्रिता
तत्किं संप्रति चञ्चरीक चरसि व्यर्थः प्रयासोऽधुना ॥ ५६॥
मृङ्गाणां नवनीरजाति विदलत्सौरभ्यलोभ्यान्यलं
मल्लीकेसरचम्पकांनि नितरां तिष्ठन्ति पुष्पाकरे
एक कोकिलशावकस्य शरणं मुग्धप्रसूनाकर-
प्रस्यन्द मकरन्दतुन्दिलदलो माकन्दभूमीरूहः ॥ ५७ ॥
धैर्यं वायस धार्यतां समुचितो नोद्वेगभारस्त्वयि
प्राणान्मुञ्चति किं वृथा पिकसुतैः पुत्रत्वमायाति रे
जानास्येव कलेः प्रपञ्चमखिलं किंचाधिकं वा परं
हित्वा नीरनिधिं लसन्ति निधयों वापीषु काचित्स्वपि ॥ ५८ ॥
शैत्य शारदशीतरश्मिकिरणादप्युत्तमं तादृशं
सौरभ्यं वचनातिगं जगति ते श्रीखण्ड सर्वं वरम् ।
किं तु त्वां सहसा किरातगृहिणी दीप्ताग्निकुण्डे जवा-
दुन्मूल्याशु करैः करोति तरसा शुष्केन्धनं लीलया ॥ ५९ ॥
आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मना-
वचातुर्यं मकरन्ददानविषये किं चातुरीयं पुनः
यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवै-
र्माहात्म्य क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥ ६० ॥
क्षिप्तं मुञ्च कुरङ्ग काननमिदं रे ताण्डवं मा कृथाः
किं ते वैभवविभ्रमेण तरसा गात्राणि संरक्षय
आस्तां कीर्तिभरः किरातविशिखैः क्षुण्णः क्षणानन्तरं
क्षीणाङ्गः क्षितिमण्डलोपरि पुनर्नो चेत्क्षयं यास्यसि ॥ ६१ ॥
स्वामाधाय निजोदरे कमलिनी चक्रे न माध्वीरसै-
र्नित्यं कोमलकेसरैस्तव पुनः किं किं मनोवाञ्छितम् ।