कि वातः परमस्ति जीवननिधे जल्पन्ति लोका मुहुः
क्षारं यत्तव जीवनं प्रतिदिनं तेनैव दूयामहे ॥ २६ ॥
सूते हन्त हलाहले जलनिधिर्दजल्पन्ति ये मानवा-
स्ते जल्पन्तु परं तु नैव कृतिनामेतेन कापि क्षतिः
सत्येवं गुणसंनिधौ क्वचिदहो तेनैव ते गौरवं
यत्त्वां बन्यकुरङ्गसुन्दरदृशो जल्पन्ति रत्नाकरम् ॥ २७ ॥
स्फारोत्तुङ्गतरङ्गपीवरकरैराकृष्य रत्नोत्तमं
यत्त्वं जीवनमध्यतः क्षिपसि रे दूरे धरित्रीतलें ।
युक्तं तज्जलनाथ नाथ कलय प्रोच्चैः प्रसादात्त्वया
लब्धं हन्त जगत्रयेऽपि सकले रत्नाकरत्वं पदम् ॥२८॥
उत्पत्तिर्जलधौ सुधासहचरी ज्योत्स्नाभिरामा तनुः
स्थानं व्योम कुमुद्वतीपरिवृढश्चन्द्रेति नाम स्फुटम् ।
सर्वं चारु तथापि हन्त कठिना यत्त्वां कलङ्काङ्कितं.
जल्पन्ति प्रतिवासरं सुरगणास्तेनातिदूयामहे ॥ २९ ॥
ज्योत्साविभ्रमभारसाररुचिरे पद्मालयाबान्धवे
लोकानां नयनोत्सवे दिविषदामानन्दकन्दालये
मुग्धा कोमलमुग्धवक्रकमलस्पर्धाकरे पद्मिनि
त्वं चेच्छीतकरे न रज्यसि गुणष्लाघ्या तदस्तं गता ॥३० ॥
फुल्लत्कैरविणीपरागरुचिरा दिङ्मण्डली श्रूयते
कोकानामपि मानसं कलुषितं किंचिद्विजानीमहे
मन्दं पश्चिमपर्वताञ्चलपुटे श्रीमान्यतो भानुमां
स्तत्सत्यं रजनीपतेः समुदयो जातः परं मन्महे ॥ ३१ ॥
होते रङ्कुरयं सुखेन निभृतं पीयूषमश्नन्मुदा
मत्वैवं सहसा चकोर शिशुना संसेवितं सादरम् ।