पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
अन्योक्तिशतकम् ।


भ्रातः श्रीहरिचन्दन प्रविदलत्सौरभ्यभव्योदयं
 ज्ञातुं ते कुशलीभवन्तु नितरां स्निग्धा विदग्धा जनाः ॥२०॥
मा संतापमुरीकुरुष्व कठिनों लोकप्रकारोऽधुना
 मग्ना हन्त रसज्ञता रसकलाप्यन्तं गता सांप्रतम्
मालाकारकुरङ्गलोलनयनां हित्वा नवीनां पुनः
 स्निग्धां मुग्धतरां लवङ्गलतिके कस्ते गुणान्वक्ष्यति ॥२१॥
शेफालीरुचिरप्रफुल्लकालिकामाध्वीं पिब त्वं मुदा
 बारंवारमुदारकुन्दविदलपीयूषमास्वादयः ।
सानन्दं विहारविन्दविपिने किं तु प्रभूतोदयो
 भ्रातर्भृङ्ग लवङ्गसङ्गाजनितः स्नेहो न हेयोऽधुना ॥ २२ ॥
नो पत्राणि चलानि हन्त कुरुषे गुञ्जारवं नो मना-
 ग्धत्से नैव पुनः स्वयं चलसि रे किं तु स्फुट सर्वतः
सानन्दं मकरन्दमेव निभृतं गृह्णासि यत्केवलं
 तत्किं कौशलमस्ति शंस भवतो ही किंचिदिन्दिन्दिर ॥ २३ ॥
हित्वा सौरभसारसुन्दरदलां माध्वीकमुग्धप्रभां
 मल्लीं सालतिकां मदालसतया भ्रान्त्या मुहुः संभ्रमन् ।
गुञ्जन्गन्तुमुरीकरोषि मधुप त्वं पङ्कजानां वने
 नो जानासि विमुद्रिते कमलिनीबन्धौ पुनर्बन्धनम् ॥२४॥
मन्दं मन्दमहो मधुव्रतचोविन्यासमञ्जूक्तिभिः
 सान्द्रानन्दमयं कथं कथमहो निद्रायितोऽभूत्करी ।
सोऽयं कर्णविकारकर्मकुशलैः कारण्डवानां रवै-
 रुन्निद्रः सहसा. करैः कमलिनीमुन्मूलितुं वाञ्छति ॥२५॥
मुक्तानामसि नायकस्त्रिजगतामानन्दकन्दस्थली
 ज्योत्स्नानाथजर्निर्जनैशरणं मन्दाकिनीवल्लभः ।