काले काले किल कल्यतामन्तवत्सर्वमन्तः
प्रायः कायक्षयपरिचये निश्चये निर्भरं नः ॥ १९ ॥
यातु व्यक्तिं कुसुमसभ संचयः सौरमाणां
खे खेलन्ती मल्यनिलयाः संत[१] तं वान्तु वाताः
कामः कामं क्षपयतु धृतिं पक्ष्मलाक्षीकटाक्षैः
शान्तिश्चित्ते स्थिरसुखसखी निर्विकारे ममास्तुः ॥ २० ॥
जरानिगीर्णे सुभगाभिमाने म्लाने शनैर्भूतिलताप्रताने ।
धनावदाने शिथिलाभिमाने धृतिर्निधाने प्रशमाभिधाने ॥ २१ ॥
रागेण सार्धं वयसि प्रयाते गतेषु भोगेषु सह स्पृहाभिः ।
देहे च मोहेन समं प्रलीने निरर्गलोऽसावपवर्गमार्गः ॥ २२ ॥
चित्तं [२]वातविकासिपांसुसचिवं रूपं दिनान्तातपं
भोगं दुर्गतगेह[३]बन्धचपलं पुष्पस्मितं यौवनम् ।
स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपां
नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥२३॥
अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः
समावज्ञामानः सदृशसुखदुःखव्यतिकरः ।
न मौनी नामौनी वनजलसमानासनमना
न दैन्यं नादैन्यं स्पृशति गुणनैर्गुण्यविरतः ॥ २४ ॥
सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता
नो कान्ताकुचमण्डलस्य सुलभा चन्द्र दरिद्रे कुतः
गीते संगतिरेव नास्ति समता तस्यां न सिद्धामघो-
र्नैराश्ये सहसैव चेतसि कृते या प्रीतिरुज्जृम्भते ॥ २५ ॥