पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ पद्धतिः]
८७
भिक्षाटनकाव्यम् ।


एकादशी पद्धतिः ।

भिक्षाप्रदानसमये वनिताजनस्य
शोकेन शंभुमधिकृत्य वचांसि यानि ।
तस्योत्तराण्यपि तया(था)नुनयान्वितानि
वक्ष्यामि तानि विदुषां श्रवणोत्सवाय ॥ १ ॥
भिक्षाटनादिकममङ्गलचेष्टितं ते
किं नाथ सापि सहते गिरिराजपुत्री ।
यद्यत्करोत्यविनयं जगतीह भर्ता
साध्वी वधूरनुगुणैव हि तस्य तस्य ॥ २ ॥
भिक्षाटनं यदि न ते विहृतिप्रवृत्तं
याचस्व भूरि पुरशासनमेव(?) भैक्षम् ।
लोकेऽत्र लोभबहुले मितमेव याच्यं
तावानलाभसमये भविता विषादः ॥ ३ ।।
1भिक्षानसाध्यमभियेभिपिनाकपाणे
रुच्यावहं तव तदेव हि कालकूटम् ।
यद्याचितं कृशजनेन तदाशु देयं
दात्रा कदाचिदपि नास्य फलं विचार्यम् ॥ ४ ॥
सर्वेष्टसिद्धिफलमीश्वर... धनेशो
याच्यस्त्वया प्रियसखो नतु भिक्षितव्यम् ।
वित्तान्धदुर्मुखनिरीक्षणभीतिभाजां
भिक्षाबलं प्रति निकेतम(न)दैन्यलभ्या ॥५॥
सर्वाः कला वदनतो भवतः प्रवृत्ताः
किं तासु काचिदपि नाथ न पोषहेतुः ।
अन्यैव कापि धनिनां द्रविणात्मिका श्री-
र्विद्यात्मिका च विदुषामपरैव लक्ष्मीः ॥ ६ ॥