पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ पद्धतिः]
७९
भिक्षाटनकाव्यम् ।

संचोदितव निशितैर्निखिलेऽपि देहे
विव्याध कापि मदनारिमपाङ्गबाणैः ॥ ९ ॥
प्रस्थानवेगशिथिले सति केशपाशे
काचित्तथैव गिरिशस्य समीपमाप ।
तेन स्मरस्य परिभूतिमपास्य केश-
बन्धो विधेय इति बद्धदृढव्रतेव ॥ १० ॥
येनाकुलेक्षणयुगादरुणेन्दुमौलि-
मान्दोलितेन न विलोकयितुं शशाक ।
लीलाम्बुजेन सहसैव नुनोद काचि-
दात्मालकं चलदलिभ्रम पश्य बुद्धिः ॥ ११ ॥
कण्ठे सकौतुकसमर्पितया तदीये
वव्रे स्वयं पशुपतिं स्वयमेव सद्यः ।
कालाजनप्रणयमेचकया स्वदृष्ट्या
नीलोत्पलारचितमालिकयैव काचित् ॥ १२ ॥
वल्लीव यस्तदधरस्तरुणप्रवाल-
स्तत्रापि निर्मलरुचिस्मितमेव पुष्पम् ।
तस्योद्गमे जनविलोचनभृङ्गसेव्यो
मासो मधुर्मधुसखाविरभूत्क्षणेन ॥ १३ ॥
रथ्योपहारकुसुमस्खलनेन काचि-
त्पादाग्रतोदमभिनीय पुरः पुरारेः ।
आत्मन्यशृङ्खलमनोभवमुच्यमान-
पुष्पास्त्रदुर्विषहतां प्रकटीचकार ॥ १४ ॥
काचित्प्रकोष्ठवलयावलिसंश्रितस्य
लीलाशुकस्य मुखसंक्रमितैर्वचोभिः ।
भिक्षाटनादिलघुकृत्यनिषेधगर्भै-
र्मन्दस्मितोत्तरमयुग्मदृशं चकार ॥ १५ ॥