पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
काव्यमाला ।

आविश्चिकीर्षुरतुलं निजबाहुमूलं
कन्दर्पमूलधनमीश(शि)तुरग्र एव ।
काचिद्विलोलवलयावलिना करेण
नेत्रान्तिकादलकभारमपाचकार ।। ३ ॥
एका त्रपापरिभवा सकलप्रवृत्ति-
श्चिक्षेप दृष्टिमवला न तु चन्द्रचूडे ।
प्रायेण तिष्ठति विदग्धविलासिनीना-
मर्धेक्षणेषु मदनः परिपूर्ण एव ॥ ४ ॥
काचिद्विलासचतुरं कतिचित्पदानि
शंभोर्जगाम पुरतो मदमन्थरेव ।
तां वीक्ष्य तादृशगतिं विशिखैः किमन्य-
दात्मन्यपि स्वयमभून्मदनः प्रहर्ता ॥ ५ ॥
कंदर्पशत्रुरयमित्यनुरूपयन्ती
सैवापपात पुर एव पुरां विजेतुः ।
इत्यात्मदोषमपरत्र निपात्य काचि-
त्काञ्चीमहो गुरुमयीमपरा निनिन्द ॥ ६ ॥
प्राप्ता स्वगेहमणितोरणमण्डमेका
रथ्यागतत्रिपुरवैरिविलोकनाय ।
किं स्थाणुसंश्रयणमिष्टमिति ब्रुवाणां
पाणिस्थकेलिकमलेन सखीं जघान ॥ ७ ॥
काचित्पुरा प्रणतिकृत्यमशिक्षितापि
गौरीवराय विनयाञ्जलिमावबन्ध ।
तन्मौलिचन्द्रकिरणैर्मुकुलीकृतेन
लीलाम्बुजेन कृततत्प्रवणोपदेशा ॥ ८ ॥
हीनाङ्गतोपरतमार्गणमोचनेन
प्राचीनवरकुपितेन मनोभवेन ।