पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ पद्धतिः]
७७
भिक्षाटनकाव्यम् ।


सत्यार्थमेव खलु तद्यदिहाद्रु(द्भु)तस्य
पात्रं भुजङ्गपरिरक्ष(क्षि)तमाहुरार्याः ।
पश्याम्बिकाकलवचोमृतपात्रभूते
कण्ठेऽपि कुण्डलभुजङ्गपरिष्क्रियास्य ॥ १७ ॥
फा(भा)लेक्षणान्तिकचर सखि पश्य शंभो.
श्चूडाशशाङ्कमतिम(क)र्शितगात्रमेनम् ।
स्वप्रेमबन्धुमदनप्लुषि हव्यवाहे
त्यक्तुं निजामिव तनुं विहितावसायम् ॥ १८ ॥
नासीरपूरणविधौ मकरध्वजस्य
चक्रुर्वचांसि सुलभानि च यानि नार्यः ।
तानीन्दुशेखरभुजं मदनावमानं
सद्यो ममार्जुरपि तस्य वपुः पुरारेः ॥ १९ ॥
सत्यं समाश्रितजनो बहुमानलाभे-
नाप्राप्तवाञ्छितफलोऽपि विभुं जहाति ।
पश्येन्दुरेष कुरुते शिरसा धृतोऽसी-
त्येतावता पशुपतेः कृश एव सेवाम् ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽङ्गवर्णनपद्धतिः सप्तमी ।


अष्टमी पद्धतिः ।

गौर्याः समक्षमपि यस्य विभोर्विकारं
कर्तुं कथंचिदपि नालमभून्मनोभूः ।
तस्यैव चित्तमपहर्तुमहो विलासा
नानाविधा नगरवामदृशां बभूवुः ॥ १ ॥
पुष्पं कराञ्जलिधृतं चलदुत्तरीया
चिक्षेप कापि पुरतः स्मरशासनस्य ।
एतावदाद्य मयि पुष्पशरेण मुक्तं
पश्यास्त्रजालमिति संशि(शंसि)तुमुद्यतेव ॥ २ ॥