पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
काव्यमाला ।

मन्ये तयान्यवनितासु हृतोपगूढ-
साशङ्कया वसति तत्र कृताभ्यनुज्ञः ॥ १० ॥
शीतं निसर्गधवलं हृदये विहाय
हारं भुजङ्गमतिभीषणमेव धत्ते ।
स्वातन्त्र्यभङ्गभयतः प्रभवः कदापि
कुर्वन्ति हन्त न गुणेष्वपि पारतन्त्र्यम् ॥ ११ ॥
हारायितः सखि हरस्य महाभुजङ्गः
पार्श्वस्थितिं1 मृगदृशां विरुणद्धि भीमः ।
रुन्धे विभुष्वधिकवल्लभतां प्रपद्य
प्रायः प्रियाश्रयणमाशु भुजङ्गवर्गः ॥ १२ ॥
नैल्यं यदम्य गलमूलगतं तदेके
(?)मामग्रणं तुरगमाणिममेष तर्कः ।
या कापि सिद्धगुलिकैव मृगेक्षणाना-
माश्लेषकौतुकनिषेधनिरूढशक्तेः ॥ १३ ॥
यो मूर्ध्नि मुग्धशशिभङ्गभयेन सोढा
पार्थस्य निघृणशरासनताडनानि ।
यो वा करोत्युभयदानमपायकाले
तं पश्य दक्षिणकरं सखि शंकरस्य ॥ १४ ॥
साकूतमन्दहसितोदयलोभनीया-
दास्यादिहास्य सखि संप्रति निर्गतानि ।
देहीति लोकबहुमानविवर्जितानि
याच्ञाक्षराण्यपि महेश्वरतां ध्वनन्ति ॥ १५ ॥
आलोकयैतदखिलेक्षणमालि शंभो-
र्निर्हेतुनिह्रुतमनोभवरम्यदेहम् ।
सर्वेषु जन्तुषु विभुः समदर्शनोऽपि
शाठ्येन यस्य विषमेक्षण एव जातः ।। १६ ॥