पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
काव्यमाला ।

कस्याश्चिदीक्षणयुगं विदधे कहृत्त(?)-
मानन्दशोकपिशुनानि गतानि तानि ॥ ५ ॥
आरादुदैक्षत तथा हरकण्ठमूल-
माश्लेषकौतुकवशेन चिराय काचित् ।
तस्या यथा कलितकज्जलदृष्टिपातैः
कल्मो(ल्मा)षितं तदति(?)पार्श्वजनस्य तर्कः ॥ ६ ॥
काचित्करेण मणिदर्पणमुद्वहन्ती
तत्रावलोक्य गिरिशं प्रतिबिम्बलग्नम् ।
कण्ठे कथं मलिनमेति गतं गलस्थं
मुग्धा मुहुर्मुकुर एव मुधा ममर्ज(ममार्ज) ॥ ७ ॥
कुम्भस्थलं कुचतटेन गतेन यान-
मूर्वो युगेन च करं करिणो जहास ।
या पूर्वमद्य किल सा वसिते हरेण
तस्यैव चर्मणि कुतूहलिनी बभूव ।। ८ ॥
1पूर्णेन्दुबिम्बतुलितेन मलेन काचि-
त्प्रीतिं चकार हरहारमहोरगस्य ।
सा तस्य भीतिमपि भीतिनिवृत्तिकण्ठी
सस्मार केशनिचयेन मयूरगङ्गीम् ॥ ९ ॥
कस्याश्चिदीक्षणमलोकविलासलोलं
बिम्बौष्ठरक्तकुमुदे पदपाणिपद्मे ।
सस्ताव(प?)हारिणि हराख्यमहातटाके
सद्यो निपत्य शफरायितमाचचार ॥ १० ॥
आलोक्य लोकविपरीतममुष्य काचि-
त्कङ्कालमंसशिखरे शितशूलबद्धम् ।
कोऽयं क्रमः प्रमहसामिति विस्मयेन
नासानिवेशितकराङ्गुलिरेव तस्थौ ॥ ११ ॥