पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ पद्धतिः]
५९
भिक्षाटनकाव्यम् ।

पत्रक्रिया च सखि ते कुचयोर्विलुप्ता
व्यापत्तये भवति हन्त 1जलेन योगः ॥ २० ॥
कण्ठोत्पलान्नयनमाप गतिच्युतात्ते
तन्मीलने मुखमयं न जहाति भृङ्गः ।
येनैनमद्य विनिवारयसि प्रमत्ते
तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ॥ २१ ॥
गत्वा तथा त्रिचतुराणि पदानि तूर्णं
गन्तुं पुनः सखि शनैरपि न क्षमासि ।
प्रायः स्वशक्तिमन(नि)रूप्य कृता प्रवृत्तिः
शक्तिनिं (क्तिं नि)जामपि शरीरभृतां क्षिणोति ॥२२॥
लाक्षारुणैः सपदि विश्लथकेशपुष्पै-
र्भ्रष्टैरशोभत परं पदवी परस्याः ।
आशंभुदर्शनमनुद्रवत स्मरस्य
बाणैर्विभिन्नहृदयैरिव शोणितार्द्रैः ॥ २३ ॥
स्विद्यल्ललाटमधिकाकुलितालकान्तं
काचित्स्त(त्त)तस्तनपयोधररुग्णमध्यम् ।
दोलाछलेन रतिशी(शि)क्षणमाचरन्ती
हित्वा तदाशु हरपार्श्वभुवं जगाम ॥ २४ ॥
काचिद्विहृत्य किल कन्तुककेलिरङ्गा-
द्भूरेणुरूषिततनुर्निरगान्मृगाक्षी ।
उत्फुल्लपङ्कजवनेषु चिरं चरित्वा
किंजल्करेणुपरिधूसरितेव लक्ष्मीः ॥ २५ ॥
यान्ती हरं प्रति शशाङ्कमुखी कराग्र-
लाक्षारसैररुणितां पदवीं चकार ।
सा च क्षणेन पदवीपथमन्मथस्याः(१)
किं नोपकारिणि भवेदुपकारवाञ्छा ॥ २६ ॥