पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
काव्यमाला ।

वेगप्रयाणसमये चलितालकेभ्यः
पुष्पैरथो निपतितैरपरा विरेजे ।
ईशोपकण्ठगमनप्रणयस्य पूजां
कर्तुं निजातियुगलस्य कृतोद्यमेव ॥ १४ ॥
याने गृहाद्बहिरुपान्तजनेन रुद्धे,
रोषारुणं सपदि संभृतबाष्पपूरम् ।
कस्याश्चिदीक्षणयुगं विदधे हुताश-
निष्टप्तदत्तसलिलस्मरशास्त्रशङ्काम् ॥ १५ ॥
त्रुट्यद्गुणेन निजवृत्तपरिच्युतेन
संक्रान्तभूरिरजसा हत1कन्तुकेन ।
व्याकुर्वता युवतिवश्यदशां नराणां
काचिद्विहाय विहृतिं हरमाससाद ॥ १६ ॥ .
नेत्रं विधाय धृतकज्जलमेकत(म)स्या
मात्रा परस्य करणेऽपि तथा प्रवृत्ते ।
काचिद्भवान्तिकगतित्वरितप्रवृत्तै-
र्बाष्पैः कृतार्थमपि तेन समीचकार ॥ १७ ॥
त्याज्या सखि द्रुतगतिः कचधारकोऽयं
संशय्यतां तव यया समयाति(?) मध्यः ।
लोके सुदुर्लभततो गुणवान्कृशोऽपि
यः कल्पतेऽन्यभरनिर्वहणोत्सवाय ॥ १८ ॥
अप्युत्तरांशुकमिदं हरितप्रयाणौ
पीनस्तना क्षिपति चेल्लघुभारभीत्या ।
बोढुं क्षमा भवसि तत्र निषेदुसीनां(षीणां) .
भारं पुनस्तरुणचित्तपरम्पराणाम् ॥ १९ ॥
यत्नान्मयैव विहितं तिलक ललाटे
धर्माम्बुना विलुलितं गतिसंभ्रमेण ।