पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ पद्धतिः]
६५
भिक्षाटनकाव्यम् ।

किं नैव जैत्रमनवो(यो)र्मदनास्त्रमेकं
दग्धं विषेण यदि रूढकलङ्कमन्यत् ॥ ७ ॥
ईशावलोकनकुतूहलमश्रुलेशै-
र्वाचं विनैव जननीं प्रति काचिदूचे ।
तस्यास्तथैव विदधे गमनाभ्यनुज्ञां
मातापि पाणिवलयापलयच्छलेन ॥ ८॥
धात्रीमुहूर्तविनिवारितनिर्गमाया
बाष्पस्मितद्वितयलब्धविरुद्धयोगम् ।
कस्याश्चिदाननमशान्तिहिमाम्बुजालं
प्रत्यूषपङ्कजमिव क्षणमाबभासे ॥ ९ ॥
भूषाविधावपि निवृत्तमनाः स्वकीये
शंभोः समीपगमनत्वरयैव काचित् ।
भूषोद्यतां प्रियसखी परिपाल्य तस्थौ
स्निग्धं तिरात्मनि सखीष्विव हन्त नार्या ॥ १० ॥
प्रारब्धमात्रकलजल्पितशिक्षणेन
वामप्रकोष्ठवलयावलिसंश्रितेन ।
काचित्ससंभ्रममुमापतिवीक्षणाय
क्रीडाशुकेन सह राजपथं प्रतस्थे ॥ ११ ॥
प्रस्थानसंभ्रमवशाद्गलितालकाया
लग्नाङ्घ्रियावकरसे पथि शोणरूपैः ।
धम्मिल्लपुष्पनिवहो हृदये प्रविष्ट-
रक्ताक्तमारविशिखाश्रियमाततान ॥ १२ ॥
आ(अ)स्थानगाम(मि)भिरलंकरणैरुपेता
भूयः परिच्छलननिह्नुतिरप्रसन्ना ।
वाणीव कापि कुकवेर्मधुपानमत्ता
वेवा(गा)न्निपातबहुलैव विनिर्जगाम ।। १३ ॥