पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
काव्यमाला ।

दास्यामि हारहरिचन्दनकुङ्कुमानि
दाक्ष्यं यदा हरवशीकरणं तदा ते ।
इत्यात्मनः स्तनमुपांशु निगद्य काचि-
त्सर्वेतराङ्गपरिकर्मविधिं चकार ॥ १६ ॥
नूनं विदग्धजनकृत्यमतर्क्यपाकं
लाक्षारसप्रणयिना वनिताजनेन ।
कस्याश्चिदोष्ठपुट एव कृतः समस्तं
यूनां मनः सपदि लम्भितरागमासीत् ॥ १७ ॥
काचित्स्वकीयदशनानि विशोधयन्ती
बिम्बाधरोष्ठरुचिसंगमपाटलानि ।
आदर्श एव परिवारजनोपनीते
दृष्ट्वा न जात्वपि पुनर्विरराम रामा ॥ १८ ॥
प्रागेव मोहनमथाञ्जनयोजनेन
चक्रे तथा मृगदृशो नयनं सखीभिः ।
पश्यन्यथा युवजनो गलमीश्वरस्य
निःशेषलुप्तगरलं गणयेदशेषः ॥ १९ ॥
साम्ये मिथः स्थितवतोऽभ्युपने(?) नराणां
वैषम्यबुद्धिरुभयोः समदर्शनेन ।
इत्याकलय्य किल कापि विलोचनान्ते
कर्णद्वये गलितमुत्पलमाततान ॥ २० ॥
नामार्द्रचन्दनरसेन सखीललाटे
लेखां मदालसदृशो विदधे विदग्धा ।
यां वीक्ष्य शंभुरपि मुग्धजटाशशाङ्के
शङ्काकुलीकृतमनाः स्वकरं चकार ॥ २१ ॥
मा जातु राहुपरिभूतिरतर्क्ययोगा-
न्मा भूत्क्षयः किमपि मा च कलङ्कयोगः ।