पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

{{|left= ५४|center=काव्यमाला ।}}

अथ प्रान्ते शिखरिणी-
तया मुक्तः श्वासस्तदभिमुखमाधाय वदनं
तदन्यासंपर्कं स्वकृतमपि सस्मार दयितः ।
हिया नम्रे तस्मिन्कृतवति नतिं मानसमयीं
प्रसादं कुर्वाणा सखि नरहरे साम विदधे ॥ ११२ ।।
अलिश्यामं व्योम स्फुटमृगमदः प्रच्छदपट-
परिस्तीर्णास्ताराः सखि नरहरे ताः सुमनसः ।
अनल्पोऽयं तल्पः सरसरमणी किंच रजनी
कलानाथो नाथः कलय समयोऽयं रसमयः ॥ ११३ ॥
चमत्कारं कुर्वन्प्रतिपदमलंकारसहितः
पदन्यासो यस्याः प्रकृतिमधुरो भावरुचिरः ।
निदानं तादृश्या गतिगमकवित्रां(१) बलभृतः
समुद्रः पद्मायाः सरसकविताया नरहरिः ॥ ११४ ॥
श्रृङ्गारशतकशतकं यदपि निरुक्तं पुरातनैः कविभिः ।
तदपि तुलां नारोहति नरहरिशृङ्गारशतकस्य ॥ ११५ ॥

इति श्रीकविवर]नरहरि[विरचितं] शृङ्गारशतकम् ।



उत्प्रेक्षावल्लभकविविरचितं

भिक्षाटनकाव्यम् ।


प्रथमा पद्धतिः।

कल्याणमाहवतु वः शिवयोस्तदेकं
गात्रं यदीयमसितच्छवि कण्ठमूलम् ।


१. अस्य च कवेः 'उत्प्रेक्षावल्लभः' इति नाम कव्यन्तरदत्तमेव प्रतीयते. वास्तविक नाम तु प्रथमपद्धतिसमाप्तिपद्यदर्शितं 'शिवभक्तदासः' इति भवेत्. यथा नवमगुच्छक- मुद्रितषष्टकाव्यमुन्दरीशतककर्तुः श्रीगोकुलस्य 'भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्वि- जद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥' इति श्लोकदर्शितमुत्प्रेक्षावल्लभनाम. अस्य देशकालौ न ज्ञायेते. २. अस्य च पुस्तकमेकमेव विलक्षणसंदिग्धलिपिलिखित-