पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० काव्यमाला। स्वैरं निपीय वदनं मदनाभिरामं लीलारसेन चिबुकं स्पृशति प्रवीणे । स्वीयं वपुर्नरहरे सकलं समर्प्य नानृण्यमाप सुमुखी सुखदस्य तस्य ।। ८६ ॥ यूना प्रणम्य चरणौ शिरसा गृहीतौ संचुम्बितौ नयनयोरपि योजितौ च । जाता प्रसादसुमुखी चरणान्तरेण जग्राह यन्नरहरेः सघनः प्रसादः ॥ ८७॥ निद्रां गतापि नयनप्रियमेव कृष्णं निम्नादरान्नरहरे हृदि लालयन्ती । स्वप्नेऽपि जागरकथामनुभूय राधा न स्वप्नजागरविभेदमुरीचकार ॥ ८८॥ प्राणाधिके झटिति संमुखमागते सा चैलाञ्चलेन हि बभूव कृतावधाना। लज्जाञ्चलेन विदधे वदनं तथेयं रागी यथा नरहरे पिहितं विवेद ॥ ८९ ॥ श्रीकालिदासकवितासुकुमारमूर्ते बाणस्य वाक्यमिव मे वचनं गृहाण । श्रीहर्षकाव्यकुटिलं त्यज मानबन्धं वाणी कवेर्नरहरेरिव संप्रसीद ॥ ९० ॥ धम्मिल्लबन्धमवलोक्य सुगन्धसिन्धुं विद्यावतो नरहरेरुदितो वितर्कः । साकं विचित्रसुमनोभिरुदारकेश्या बद्धानि किं नु सुमनांसि रतिप्रियाणाम् ॥ ९१ ॥ धम्मिल्लबन्धमवलोक्य विलासवत्याः किं राहुरेष इति संवलितः क्षणेन ।