पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारशतकम् । हेमाचलस्थलविशालनितम्बबिम्बा बिम्बाधरा नरहरेर्हृदयं धिनोति ॥ ७९ ॥ अत्यन्तचीनवसनेन पिधाय कायं निद्रां गता समणिभूषणभूषिताङ्गी । प्रत्यक्षतोऽपि परमां रुचिमावहन्ती चन्द्रानना नरहरेर्नयने जहार ॥ ८० ॥ मञ्जीरमुग्धमरुणं चरणारविन्दं मन्दं निधाय वदनं परिवर्तयन्ती। आलोकितुं नरहरिं भ्रमराभिरामै- र्नेत्रैरियं निभृतमातुरतां व्यनक्ति ॥ ८१ ॥ स्निग्धेन लोचनयुगेन यथा रतान्ते दृष्टस्तया नरहरिः स्मरकेलिदक्षः । एणीदृशा किल तथैव कटाक्षितोऽसौ पुष्पाञ्चितो विलुलितो घनकेशपाशः ॥ ८२ ॥ कण्ठे निधेहि नवचम्पकदामरम्यं तुङ्गौ स्तनौ मम विलेपय चन्दनेन । एवं वचो नरहरिं प्रति तेऽनुरूपं रूक्षस्य हन्त वचसः सखि नावकाशः ॥ ८३ ॥ सौन्दर्यकुण्डमबले तव नाभिकुण्डं रोमावली परिसरे मृदुशादूलश्रीः । पातुं गतं नरहरेर्नयनद्वयं चे- नैवागतं सुतनु तर्हि निमग्नमेव ॥ ८४ ॥ पातुं क्षमो नहि पुरो विहितापराधः केशप्रसाधनविधानपरो बभूव । व्यावृत्य सापि झटिति स्मरबाणनुन्ना जग्राह तं नरहरेः करपञ्जरेण ॥ ८५ ॥