पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ वसन्ततिलकम्- वेणीधृतां नरहरिः कविनायकोऽपि श्यामच्छविं न किल वर्णयितुं समर्थः । यद्गौरवेण कनकद्रवगौरगात्री श्यामापदं शिरसि चन्द्रमुखी बिभर्ति ॥ ७३ ।। कर्णान्तदीर्घनयना नयनाभिधाने द्वे दीर्घिके नरहरे रसपूरपूर्णे । लज्जाभिधां ललितनावमिहाधिरूढो रत्या समं विहरते मदनो विनोदी ॥ ७४ ॥ एकार्णवे भवति नाम वरावरस्य श्रीकेशवौ रहसि केलिरसं भजेते । एकार्णवे हि तमसोऽपि घने निशीथे लीलारसं नरहरे तरुणौ भजेते ॥ ७५ ॥ आलक्ष्य दर्पणतले दयितेन दत्तं बिम्बाधरान्तरदनक्षतचारुभावम् । चन्द्रानना नरहरे प्रणयप्रमोदा- दिन्द्रासनस्थितिसुखानि तिरस्करोति ॥ ७६ ।। मन्दोदरी मदनताण्डवपण्डितेन तुण्डेन कुण्डलवता रदखण्डितेन । रागारुणा नरहरे रतिरङ्गरम्यं रामा रसेन रमणं रमयांचकार ॥ ७७ ॥ लीला विधाय रतिराजरसाभिरामां लीलान्तरं नरहरौ ननु याचमाने । भ्रूभङ्गरङ्गरुचिरं वनितावितीर्णं ताटङ्कताण्डवसुखं कथयामि कस्मै ॥ ७८ ॥ प्रक्षीणमध्यविशदस्तनतुङ्गभावा कन्दर्पदर्पदरमन्थरलोचनश्रीः ।