पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शृङ्गारशतकम् । ४७

अमलकमलशोभाखण्डने पण्डितेयं
तुहिनकिरणलक्ष्मीजित्वरी तुण्डकान्तिः ।
नरहरिकविराजः कामलोलः कदाहं
मधुरमधरमस्याः केलिकाले पिबेयम् ॥ १७ ॥

दशति मृदु धुनीते कुन्तलं मञ्जुवाणी
धयति मधुरमोष्ठं रम्यरोमाञ्चितेन ।
रचयति रचनाभिर्भावसंभाविताभि-
र्नरहरिपरिरम्भे संभ्रमं सारसाक्षी ॥ ६८ ॥

झगिति न कितवानां संभवैः संभ्रमानां
नरहरिकविचेतश्चेतसा चन्द्रमुख्याः ।
नयननलिनपाली संप्रनालीसमेतं
सलिलमिव सरस्योः सामरस्यं समेति ॥ ६९ ॥

सविनयमनुवारं वच्मि कृत्वा विचारं
नरहरिपरिहारं मा कृथा दुःखभारम् ।
हृदि कुरु नवहारं मुञ्च कोपप्रकारं
कुरु पुलिनविहारं सुभ्रु संभोगसारम् ॥ ७० ॥

अथ पृथ्वी-
सहैव हरिनामभिर्ननु न पाठितामप्यसौ
प्रियावचनमाधुरीं किल पपाठ कीरः सुधीः ।
न सन्ति कति पक्षिणो नरहरे शुकः केवलं
लभेत कथमन्यथा वचनमाधुरीमीदृशीम् ॥ ७१ ॥

यदा नरहरिस्तया ललितहासमङ्गीकृतो
विलासरसरञ्जितैः स्मरतरङ्गितैरक्षिभिः ।
दृगन्तकुसुमोत्करैः सकुतुकं सखीभिः कृतं
तदैव करतालिकागणझणत्कृतैर्मङ्गलम् ॥ ७२ ॥