अथ प्रहर्षिणी-
बिम्बोष्ठे करच[र]णे सुरक्तवर्णा रोमालीचिकुरकटाक्षकृष्णकान्तिः ।
अत्यच्छा स्मितविषये विमोहनीयं निर्णीता नरहरिणा मुकुन्दमाया ॥ ५९ ॥
बध्नन्ती करकमलेन केशपाशं पश्यन्ती मणिमुकुरे मुखारविन्दम् ।
मीनाक्षी कुटिलकटाक्षखड्गधारानिक्षेपान्नरहरिमञ्जसा जघान ॥ ६० ॥
चार्वङ्ग्या नरहरिराहतो विहारे मञ्जीरक्वणितवता पदाम्बुजेन ।
संसिक्तः स तु सुधयैव मोदमानः प्रागल्भ्यं द्विगुणमवाप खेलनेषु ॥ ६१ ॥
धम्मिल्लस्थलविगलत्प्रसूनजाला कस्तूरीतिलकलसद्विशालभाला ।
एकान्ते नरहरिसंगमे रसाला बाला [सा] मदनकलाविलासशाला ॥ ६२ ॥
अथ मालती-
निरवधिरतिरङ्गप्रेमरोमाञ्चिताङ्गी
कतिपयरदरेखारम्यबिम्बाधरश्रीः ।
स्फुरति हरिणनेत्रा हारिहावा हसन्ती
नरहरिसुखमूर्तिस्तस्करा चित्तवृत्तेः ॥ ६३ ॥
नरहरिकविराजव्याजतः शारदेयं
कथयति बत भावं कामिनी कुन्तलानाम् ।
तरुणशकुनिहिंसा कर्महेतोः किलेयं
[स]विषशरकिरातव्यातता वागुरन्ति ॥ ६४ ॥
किमपि नयनशोभा नाम पानीयमस्या
लसति नयनयुग्मे कृष्णसारेक्षणायाः ।
नरहरिकविरेवं वक्ति कृत्वा विचारं
किमु सरिति न तावत्सागरे सप्तमेऽपि ॥ ६५ ॥
कलय कनकवल्लीतुल्यभासोऽङ्गनायाः
कुटिलतरकटाक्षप्रेरणाशृङ्खलाभिः ।
जिगमिषुरपि यत्र क्वापि कामं विलासी
नरहरिकविराजो नागराजो निरुद्धः ॥ ६६ ॥
पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५४
दिखावट
पुटमेतत् सुपुष्टितम्
