पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शृङ्गारशतकम्।

अथार्याः-
चौरसुजनप्रसङ्गे बन्धश्चौरस्य नरहरे नियतः ।
मदनमहीपतिराज्ये चौरैः सुजना निबध्यन्ते ॥ ४७ ॥

तृष्णातरलितचक्षुः पश्यति सरसीं यथा पथिकः ।
एवं यदि सरसी स्यान्नरहरिरुपमां ब्रवीतु दम्पत्योः ॥ ४८ ॥

रमणगृहं प्रति रमणं नयनं नयति स्म नम्रनयनायाः ।
नयनेन नयनमस्या नयनपदं नरहरे भजति ॥ ४९ ॥

आ ईषन्ननुवाणीमाननमङ्गीचकार परिरम्भे ।
तेनैवाननमस्या आननमिति नरहरिर्वदति ॥ ५० ॥

परिपूर्णचन्द्रलक्ष्म्या यदास्यते मुख्यमास्यं तत् ।
तव तन्वि तादृगास्यं नरहरिरन्यत्र लक्षणां वदति ॥ ५१ ॥

नरहरिहृदय इवास्या विनिमज्जन्त्या रसाधिके सरसि ।
दर्शितरङ्गतरङ्गः प्रससार निरन्तरः स्नेहः ॥ ५२ ॥

त्वं हावभावसहिता नरहरिकवितेव मञ्जुलं वदसि ।
श्लेषे न कुरु विलम्बं श्लेषो हि सुखार्णवः सुमुखि ॥ ५३ ॥

चन्दनघनमलयद्वयसौरभलाभाय भुजगवनितेयम् ।
मृदु चलति नाभिकुहरान्नरहरिराख्याति रोमराजिरिति ॥ ५४ ॥

सुखमिति वक्तुं युक्ते मुखमिति स लिपेर्विपर्यासः ॥ ५५ ॥

नरहरिकरेण गलिते नीवीबन्धे सुवर्णवर्णायाः ।
हरभस्मितोऽपि मदनो जन्म नवीनं पुनः प्राप ॥ ५६ ॥

क्षीणतया न हि खिद्यति नरहरिरभ्यागतः स्वगृहे ।
परिचेष्यते कथं मामिति वनिता दुःखिता भवति ॥ ५७ ॥

पञ्जरयन्त्रितचञ्चलचकोरचर्याञ्चितं चक्षुः ।
भवनगवाक्षगताया नरहरिरवलोक्य विस्मयं विशति ॥ ५८ ॥