पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शृङ्गारशतकम् । ४३

आज्ञाकारिणि किंकरे परिसरे प्राणान्तपर्यन्तिनी
दुष्प्रेक्षा दृढमानबन्धरचना रामे किमर्थं कृता ॥ ३४ ॥

उच्चैर्मन्दिरमुज्ज्वलं समुदितः पूर्णः पुरश्चन्द्रमाः
प्रेमार्द्रस्तरुणः सखे नरहरे रूपाधिका नायिका ।
पर्यङ्के स्फुटफेनदुग्धधवले मञ्जुस्मितालंकृता
लीलाः साधु निपीय हर्षजलधौ मग्नः सखीनां गणः ॥ ३५ ॥

पूर्वं चारु निरीक्ष्य पाणिकमलेनामृश्य संबोधितः
पश्चात्खेलनलीलया मृदुपदैः सस्नेहमध्यापितः ।
क्रीडापञ्जरयन्त्रितो नरहरिर्नक्तं यथा लालितः
क्रीडापञ्जरयन्त्रितो वनितया कीरस्तथा लालितः ॥ ३६ ॥

चन्द्रे लोचनगोचरे सुखनिधे सा निश्चिनोत्यामनं
कञ्चुक्या हृदि संवृतप्रणयिनं निःसंशयं श्लिष्यति ।
कीरे कुर्वति संकथां प्रियतमं संभाषते संभ्रमैः
पद्मं चुम्बति चेन्मुखं नरहरेश्चुम्बत्यसौ तन्मयी ॥ ३७ ॥

तेना.."त्वय'
.......
स्य कवेरिवोक्तिरबला किं ते रसं दास्यति ।
संप्राप्तानुनया विलासरसिका शृङ्गारहाराञ्चिता
साहित्येन समन्वि[ता] नरहरेर्वाणीव सा सेव्यताम् ॥ ३८ ॥

जानाम्येव यथा सुखं सुखनिधेः सांनिध्यतो लभ्यते
तादृङ् नास्ति सुखं सखे नरहरे लोकेशलोकेऽपि न ।
किंतु प्राञ्जलिरेष नम्रनयनो विज्ञापनामाचर-
न्कान्तश्चाटुचमत्कृतानि तनुते मानस्तदर्थो मम ॥ ३९ ॥

अथ स्रग्धरा-
केयं काश्मीरगौरी सकुसुमयमुनावर्तकान्तालकान्त-
ग्रन्थिः पूर्णेन्दुवक्त्रा नवमृगनयना पक्वबिम्बाधरश्रीः ।
मन्दस्मेरा सुपीनस्तनभरविनमन्मुष्टिमेयोदरश्रीः
श्रोणिप्राग्भारगुर्वी नरहरिहृदयानन्दिनी मन्दमेति ॥ ४० ॥