पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शृङ्गारशतकम् ।

रक्तोऽयं सविशेषमेव दयितो नित्यानुरक्ता वधू-
र्यूनो रागरसात्मकं नरहरे रागाद्वयं दृश्यते ॥ ८ ॥

मानो मुक्तिमुपागतः प्रथमतः पश्चान्मिलच्चेतसो-
र्मौनं मुक्तिमुपागतं नरहरे मुक्तिं गता कञ्चुकी ।
नीवी मुक्तिमुपागता रतिरसे मुक्तिं गताः कुन्तला
मुक्तिक्षेत्रमिदं महत्परिचितं मुक्तेः सुखं रागिणा ॥ ९ ॥

आलापे मधुरस्मितानि तनुते गृह्णाति कण्ठस्थलीं
तल्पं कल्पयति स्वयं नरहरे सुस्निग्धमालोकते ।
आश्लेषे मृदुसीत्कृतानि कनुते(?) चाटूनि रम्ये रते
क्रीतोऽहं कतिधा न किं तदपि मां क्रीणाति लीलाशतैः ॥१०॥

अग्रे नृत्यति हावभावचतुरं नेत्रद्वयं चञ्चलं
पार्श्वे कङ्कणकिङ्किणीप्रभृतयो वादित्रमातन्वते ।
गायन्ति भ्रमराः सपुष्पकबरीसौरभ्यलुब्धा इमे
रामे शंसति कौतुकं नरहरेस्तौर्यत्रिकं ते तनुः ॥ ११ ॥

कान्तिः पावकसंनिभापि सुखदस्पर्शा यथा चन्द्रिका
वक्त्रा(क्त्रे) वाक्यपरम्परा नरहरे पीयूषधारानिधिः ।
अत्यन्तं कठिनौ तथापि हृदयानन्दाय वक्षोभवौ
दृक्पाता निशिताः शरा इव परं पुष्पाञ्जलिश्रेणयः ॥ १२ ॥

दूरीकृत्य दुकूलमन्त(म्ब)रवरं गाढान्धकारे गृहे
संश्लिष्टैव दुकूलकोमलतनुः सर्वात्मना सुन्दरी ।
गात्रं नाम दुकूलमेव सुदृशस्तेनामुना हेतुना
संभ्रान्तस्य दुकूलगो नरहरेर्नास्तं गतः संशयः ॥ १३ ॥

केचित्क्रूरकटाक्षबाणनिहताः संपातिता भूतले
केचिद्भाषणमाधुरीहृतधियस्तिष्ठन्ति मोहं गताः ।
ये केचित्प्रपलायितुं कृतधियो जालेन ते यन्त्रिता
बालेयं स्मरदेवता नरहरे आखेटकं खेलति ॥ १४ ॥