पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

ये केचित्सुधियः सदुक्तिनिधयः संतुष्टवाग्देवता-
स्तेषां काव्यरसामृतानि वदने नित्यं वसन्त्येव हि ।
तेऽपि श्रोत्रपुटेन वाङ्मयरसं पातुं सतृष्णाः सदा
तस्मादेष रसाधिको नरहरेः काव्यश्रमः सार्थकः ॥ २ ॥

कालिन्दीजलकेलिकौतुकवती नीलाञ्जनश्यामला
चञ्चत्केकिकलापकोमलतनुर्गौराङ्गि वेणी तव ।
वाचाटैः कविभिस्त (स्त्व)दीयसुषमा बाले कथं वर्ण्यतां
वाग्गिमश्रेणिशिरोमणिर्नरहरिर्यद्वर्णने मुह्यति ॥ ३ ॥

बाले वीत(चीन)पटाञ्चलेन पिहिता भीमा प्रलम्बा भृशं
श्यामाङ्गी मणिमण्डिता फणवती वेणी भुजंगी तव ।
दष्टोऽयं तरुणस्तया नरहरिस्त्वं मञ्जुहासामृतै-
रेनं जीवय सत्वरं शिवशिव प्राणानसौ त्यक्ष्यति ॥ ४ ॥

मुक्तामण्डितकर्णशुक्तिरुचिरे विम्बोष्ठरत्नाकरे
पर्यन्तस्थितनीलकुन्तलवने लावण्यकल्लोलिनि ।
चार्वङ्ग्या मधुरस्मितामृतनिधौ शोभासमुद्रे मुखे
वत्तु(चक्षु)र्मीनमनोहरे नरहरेश्चेतो निमग्नं सखि ॥ ५ ॥

दंपत्योर्ननु मौनमेव सुदृढं नामग्रहो न द्वयो-
र्वीडा हन्त विलोकने नरहरे तत्रापि तिर्यग्गतिः ।
सांमुख्ये मुखमावृणोति वनिता भ्रूभङ्गिनी सर्वदा
प्रत्यक्षो रण एव केलिसमये वैरं नु तत्प्रेम नु ॥ ६ ॥

स्मेरास्ये कलया कयापि तरुणे लीलारसप्रार्थके
नम्रास्या करवारिजेन वलयं व्यावर्तयत्यङ्गना ।
मत्कण्ठे मृदुसुन्दरे सवलयं बाहुं निधेहीत्यमुं
भावं तस्य महाकविर्नरहरिर्जानाति नान्यो जनः ॥ ७ ॥

रक्तान्येव रदक्षतानि वदने गात्रेऽपि रक्ता पटी
रक्तान्येव नखक्षतानि हृदये रक्ताः कटाक्षोर्मयः ।