पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
रामबाणस्तवः

दृष्ट्वा तत्रास कृत्तं दशवदनशिरो येन तत्रासकृत्तं
बाणं वन्देऽवमान्यं भगवत उदयद्वैभवं देवमान्यम् ॥ ९९ ॥
हाहाकुर्वाणसर्वाशरनिकरमविस्रम्भिणो जम्भजेतु-
र्भृत्यैरभ्येत्य दृष्टं मुदितकपिकुलास्फालितोद्भूतवालम् ।
आहृत्य श्येनकङ्कावलिदलितभुजाभ्यन्तरं स्यन्दनान्ता-
ल्लङ्केशं भ्रंशयन्तं रघुपतिविशिखं नौमि रोगोपशान्त्यै ॥ १०० ।।
यत्पत्रं तत्सवित्रीभवति हनुमतो नीलसुग्रीवसर्गा-
वायत्तौ यत्फले चानिशमिनशशिनौ गच्छतो यच्छरीरे ।
अन्यत्किं यद्गरिम्णि त्रिपुरहरधनुर्दुग्धसिन्धोश्च मन्थः
पौलस्त्यप्राणहारी युधि भवतु स मे रामबाणः शरण्यः॥१०१।।
आदौ मारीचमात्रप्रचलितचरणन्यासनिवृत्तरेखं
पश्चात्क्रामत्खराश्वद्विरदरथभटाक्रान्तिवैपुल्यभाजम् ।
निस्तीर्णे कुम्भकर्णप्रभृतिभिरगमद्बन्धुभिः स्पन्दितैः प्रा-
ग्यत्कृत्तः पङ्क्तिवक्रो यमनगरपथं रामबाणं तमीडे ॥ १०२॥
कल्याणं रामबाणः कलयतु भुवनातङ्कनिस्तन्द्रलङ्का-
नाथस्वच्छन्दबन्दीकृतरुददमरस्त्रैणनिर्मोक्षदक्षः ।
निर्विघ्नारम्भरम्भाकुचकलशपरीरम्भसौख्योपुलम्भ-
स्निह्यज्जम्भारिसंभावितविनतजनत्राणचातुर्यधुर्यः ॥ १०३ ॥
यश्चण्डीजानिशैलग्रहणकृतधियः खण्डितेन्द्रानिलाग्ने-
र्लङ्कानाथस्य कण्ठानहह कदलिकाकाण्डकर्ते चकर्त।

तानि सीसाकृतिरदनानि । एवंविधानि मुखानि यस्याः सा तथोक्ता वाहिनी । राक्षसी रक्षःसंबन्धिनी । सेति प्रसिद्धौ । तत्रास त्रस्ता बभूव । कृत्तं छिन्नम् । तत्र तस्मिन्स- ङ्ग्रामे । असकृत् बहुकृत्वः तं बाणं वन्दे नौमि । अवमादधमादन्यं उत्तममित्यर्थः । उ- दयद्वैभवं उद्यत्प्रभावम् । देवानां मान्यं पूज्यं देवमान्यम् । इति क्रमेण पदच्छेदः पदा- र्थश्चावगन्तव्यः. १. 'यस्य पत्रेषु पवन: फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥' इति रामायणे. २. निरोष्ट्यवर्ण श्लोकः.