पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
काव्यमाला ।

कृत्तक्षिप्ताश्वकुक्षिस्रुतरुधिरमिलद्वध्रिकागृध्नुगृध्नी-
सङ्घानाघ्रातजङ्घाकरिककरिकरच्छेदविस्रंसिमांसा ।
चक्रे येनारिसेना विदलितनिपतद्दुष्टवीरास्यदष्ट-
स्कन्धक्रन्दच्छृगालभ्रमणकलुषिता रामबाणं तमीडे ॥ ८५ ॥
कृन्तद्गोमायुदन्तकृकचकटकटात्कारघोरास्थिकूटं
कङ्कोरुत्रोटिटङ्कत्रुटितपटपटाकुर्वदुच्चण्डमुण्डम् ।
चक्रं यत्क्रूरशल्यक्रमणविगलितप्राणमासीदरीणां
तन्यान्मे भूमिकन्यासहचरविशिखस्तापनिर्वापणं सः ।। ८६ ॥
कस्मैचित्कापि मैत्री निरुपधि दिदिशे दाशमुख्याय येन
क्षेमं यत्संनिधाने समिति पृतनया दाशमुख्या यये न ।
तस्य श्रीराघवेन्दोररिचकितशचीदेवनानाशुगन्तं
भक्तान्कुर्वन्तमीडे सुलभसुखनदीदेवनानाशुगं तम् ॥ ८७ ॥
क्षीणौजःकौणपासृक्कणविकिरणतो द्राग्रणक्षोणिकोणं
शोणीकुर्वाणमुद्यद्रणरणकरणद्रावणद्रावणज्ञम् ।
प्राणत्राणप्रवीणं प्रणतिचणनृणां प्रक्वणद्वेणुवीणा-
पाणिवस्त्रैणवाणीगुणितगुणगणं रामबाणं प्रणौमि ॥ ८८ ॥
कालीहर्यक्षकण्ठध्वनिभरपरुषं कुर्वतामट्टहासं
साटोपन्यस्तपादक्रमनमितभुवां भग्नशूलद्रुमाणाम् ।

१. दाशमुख्याय धीवरश्रेष्ठाय येन राघवेन्दुना इति प्रथमपादे. दाशमुख्या दशमु- खसंबन्धिन्या यये प्राप्तम्. 'या प्रापणे'. कर्मणि लिट्. आत्मनेपदम्. नेति नञ्प्रतिषेधे इति द्वितीयपादे. अरिचकितस्य रावणाद्भीतस्य शचीदेवस्य महेन्द्रस्य नानाविधाः याः शुचः शोकाः तासामन्तं नाशप्रदमिति तृतीयपादे. मुखमेव नदी सुलभं सुखनद्यां देवनं विहारो येषां तान् सुलभसुखनदीदेवनान् ; आशुगं बाणं तमिति यच्छब्दप्रतिनिर्देशः. २. रावणद्रावणझं रावणं विद्रावयन्तमित्यर्थः, ३. अदसीयशृङ्गारतिलकमाणे- 'कालीहर्यर्क्षकण्टध्वनिभरपरुषं कुर्वतोरट्टहासं साटोपन्यस्तपादक्रमनमदवनि भ्राम्यतोर्मण्डलेन । निर्घातक्रूरमुष्टिप्रहृतबृहदुरस्तारठात्कारघोरा युद्धारम्भा हिडिम्बानिलसुतबलयोर्मल्लयोरुल्लसन्ति ॥ १४८ ॥ इति.