पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
रामबाणस्तवः

अन्योन्यश्लिष्टनष्टद्विरसनमनलज्वाललीनाभ्रजालं
कुर्वन्नम्भोधिमुर्वीदुहितृपतिशरः पातु नः क्षेमहेतुः ॥ ६६ ॥
संमुह्यत्सह्यकन्यं तरलितमुरलं जृम्भितातङ्कगङ्गं
सद्यःक्रन्दत्कलिन्दात्मजमवशलुठन्नर्मदातुङ्गभद्रम् ।
खेलज्ज्वालावलीढक्षुभितसरभसोद्वेलकल्लोलचक्रे
विक्रोशत्यम्बुराशौ रघुपतिविशिखः पातु मां यातुमाथी ॥६७॥
अन्योन्यश्लिष्टवीचीभुजलतमभितःकीर्णशैवालकेशं
लोलत्पद्मेक्षणान्तस्रवदमितमधुस्यन्दबाष्पानुबन्धम् ।
चक्रन्दुः सिन्धवो यन्मुखवलदनलज्वालतान्ते स्वकान्ते
सः श्रेयस्ताटकेयप्रमथनविशिखो यच्छतादिच्छतां नः ॥६८ ॥
वैडूर्यस्निग्धमुग्धद्युतिरमरधुनीमुख्यनारीपरीतो
रत्नस्रङ्मौलिरात्मप्रभवमणिगणालंकृतो रक्तचेलः ।
यस्मिन्प्राणान्तदण्डप्रणयिनि समुपागम्य रम्यैर्वचोभि-
र्भक्त्या तुष्टाव बद्धाञ्जलिपुटमुदधिस्तत्प्रभोरस्त्रमीडे ॥ ६९ ॥
अन्वञ्चज्जह्नुकन्याशिशिरकरतलामृष्टनिष्टप्तभाग-
स्तातप्रेमाप्तधन्वन्तरिकरकलितच्छिन्नगात्रार्द्रपट्टः ।
काङ्क्षन्नम्भोधिरन्तर्घनममृतरुचेरात्मजस्याङ्कपालिं
निन्ये यद्ग्रस्तमुक्तः कथमपि दिवसं तं भजे रामबाणम् ॥७०॥
अङ्कालंकारलङ्कापुरशिखरशिलाचक्रविक्रान्तवीर-
क्रूरक्रोधाट्टहासश्रवकुपितकपिक्ष्वेडिताम्रेडितानि ।
ज्यानिर्घोषेऽतिशय्य प्रवहति विहगात्रंहसा संहसन्तं
तं रक्षश्चक्षुरुष्णंकरणमधिरणं रामबाणं नमामि ॥ ७१ ॥
कृत्तं येनापतत्तद्रणशिरसि शिरः श्मश्रुलं रश्मिकेतोः
सुप्तघ्नश्च न्यपप्तद्भुवि दलितशिरा यज्ञकोपेन साकम् ।
भग्नं द्रागग्निकेतोरपि धरणिगतं शीर्षमाकार्षि कङ्कै-
र्लङ्कातङ्कैकहेतुः स शरपरिवृढः पातु सीताधिनेतुः ॥ ७२ ॥