पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
काव्यमाला ।

तारातारप्रलापद्विगुणितकरुणाक्रन्दकिष्किन्धमुद्य-
त्त्रासापक्रान्तकीशप्लवननिपतितानोकहानेकशाखम् ।
सुग्रीवान्तःसमग्रीभवदरिपतनानन्दमिन्धानरूपं
चित्ते कृत्तेन्द्रसूनुं रघुपतिविशिखं शीलयामः शुभाय ।। ६० ॥
ईडे वीरस्य गाढश्रयितघनजटामण्डलस्य श्रमाम्भः-
सिक्तालीकस्य वीचीनिचयवलयिने कुप्यतः सागराय ।
आरक्तापाङ्गलीढश्रुतिनिकटचरन्मुष्टिसंदष्टमूलं
चापातिक्रान्तशल्यज्वलदनलमिषुं शान्तये साध्वसानाम् ॥६१॥
संसृप्तज्वालतप्तप्रबलगिरिदरीगर्भनिर्भेदखेद-
क्षुभ्यद्धर्यर्क्षरूक्षध्वनिचकितगजोन्मुक्तफीट्कारघोरम् ।
अम्भःशोषोपलम्भक्षणचुरुचुरुतोद्बुद्बुदस्त्यानफेनं
पारावाराम्बुपूरं चिकलयिषुरिषुः पातु पौलस्त्यजेतुः ॥ ६२ ॥
भ्रश्यन्निर्घातनश्यद्धृति तिमिरभराक्रान्तमुद्भ्रान्तलोकं
वातूलध्वस्तमूलक्षितिरुहमवनीकम्पसंपन्नशोकम् ।
तिर्यच्चन्द्रार्कचर्याचकितमुनि जगत्कुर्वता येन पूर्वे
लक्षीचक्रे समुद्रः स हरतु दुरितं रामभद्रीयबाणः ॥ ६३ ॥
शुष्यत्पाथोधिकुक्षिभ्रमदमितमहाग्राहवालाग्रघात-
क्षुभ्यत्कल्लोलगर्भप्रभवकलकलव्याप्तविध्यण्डमध्यम् ।
दिक्कोणव्यापिनव्यद्युमणिशतसमुद्भाव्यसाचिव्यभाव्य-
ज्वालामालाकरालं विपदपहतये रामबाणं स्मरामः ॥ ६४ ॥
पाथःक्काथासहाधःपतदुरुमकरत्रस्तपर्यस्तयादो-
निर्वृत्तावर्तचक्रभ्रमणविवलदुत्ताननिष्प्राणमीनम् ।
निष्टापत्रुट्यदब्जप्रकरपटपटध्वानसंरुद्धमब्धिं
यश्चक्रे प्रागिषुं तं खरमथनकराम्भोजभाजं भजामः ॥ ६५ ॥
उत्क्रामत्प्राणनक्राननविलविगलत्प्राङ्विगीर्णाम्बुमर्त्ये
धूम्यासंसर्गताम्यद्रजनिचरकुलत्रासमुक्ताधिवासम् ।