पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
रामबाणस्तवः

एषा रोषाज्जयन्तं करटतनुमनुक्रामते भीमतेजो-
नुद्ध्याय स्यान्नमस्या मम रघुवृषभप्रेयसे सायकाय ॥ २९ ॥
त्राणानीशे हुताशे वितरितुमभयं पाशभृत्युज्झिताशे
रक्षावैमुख्यदीक्षां विदधति धनदे वज्रहस्ते विहस्ते ।
काकेनालम्भि लोके क्वचिदपि न किल त्रस्यता यस्य पाता-
द्रामादन्यः शरण्यः प्रथयतु स शुभं मैथिलीनाथबाणः ॥३०॥
मारीचानुप्रचारावहितनवमृगाकाररक्षोयुगोरः-
प्रध्वंसस्रंसिमांसग्रसनरसनटत्संकुलश्येनकङ्कम् ।
कुर्वन्प्रह्वाधि सर्वकषगुणघटितो दण्डकामण्डलं यः
संचिक्रीडे तमीडे त पनकुलमणेः सायकं भावुकाय ॥ ३१ ॥
घोरासृग्वर्षिधाराधरमवनिपतत्तुङ्गरथ्याश्वसङ्घं
दुष्टश्येनोपविष्टध्वजशिखरमुरुक्रन्दगोमायुचक्रम् ।
नासीरं पूर्वमासीदति सपदि खरे योद्धुमुन्नद्धधूमो
युद्धाशंसामशंसत्किल रघुपतये यः स बाणः पुनातु ॥ ३२ ॥
एकोऽनेकोपरोधश्चरतु कथमिति व्याकुले दिव्यलोके
युद्धालोकाय बद्धादरमनुपतति व्योमसीमां विमानैः ।
तच्चिन्तां भङ्क्तुमेको दशशतमिति यो जातु मुक्तोऽपि यातु
क्षिप्रं चिच्छेद दीप्रं तमिनकुलमणेः सायकं भावयामः ॥३३॥
रुन्धन्रक्षोदृगन्धंकरणरुचिभरैरन्तरिक्षं तरखी
वृन्दं वृन्दं विभिन्दन्समिति खरचमूचारिणां वैरिणां यः ।
नन्दन्नाकेशमन्दप्रचलितनयनाम्भोजसंभावितोऽभू-
दन्तर्ध्यायामि संतर्पितमुनिसदसं तं शरं वंशनेतुः ॥ ३४ ॥
गोमायुत्यक्तभीमायुधसचिवभुजच्छेदसंबाधमुर्व्या-
मुच्चण्डश्मश्रुमुण्डग्रहविमुखवलद्गृध्रनीरन्ध्रमूर्ध्वम् ।
धर्मारण्यं वितन्वन्नपि खरसमरे तापसारब्धसार-
स्तुत्यानत्यास्पदं यः समजनि तमहं रामबाणं नमामि ॥ ३५॥