पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
काव्यमाला ।

यश्चापज्यापविद्धः सपदि घनपदव्यन्तमुत्पत्य कृन्त-
न्बाहामध्यं सुबाहोरतिरभसवशादप्यनासक्तरक्तः ।
सेवासंनद्धदेवावनमितमुकुटोद्दीप्तमाणिक्यसूप्त-
श्रीपुञ्जेनाररञ्जे स भवतु भगवत्सायकः श्रेयसे सः ॥ २३ ॥
भित्त्वा सत्त्वानुरूपं झटिति घनमुरः क्रामति व्योमरङ्गं
यत्र भ्रश्यत्तनुत्रः पतदसिलतिकारिक्तबाहुः सुबाहुः ।
प्रागभ्यासादिवागस्कृदजनि पुनरप्यास्रविस्रावणेन
स्थानारण्ये मुनीनामवतु स जवनो रामनाराचराजः ॥ २४ ॥
यश्चञ्चत्कङ्कचञ्चूपुटहठविकटाकृष्टभीमान्त्रजाला-
न्विद्राणक्रोष्टुघोणाधृतपिशितगलद्रक्तसंसिक्तमार्गान् ।
खण्डंखण्डं सुबाहोर्भटकुलमकरोत्कौशिकस्याश्रमान्ता-
न्कौसल्यासंभवस्याशुगमखिलरुजाशान्तये चिन्तये तम् ॥२५॥
कर्मप्रत्यूहभङ्गान्नियमिपरिषदो भव्यहव्योपलम्भा-
द्दिव्यानां क्रव्यदानादपि वनपततामुत्तमां प्रीतिमत्ताम् ।
प्रायच्छत्ताटकेयप्रमुखमखरिपुक्षोदरूक्षोदयो यो
वन्दे तं देववृन्दस्तुतमुषितमिषुं रामहस्तारविन्दे ॥ २६ ॥
कोदण्डे भार्गवेण त्रिपुररिपुधनुर्भङ्गरुष्टेन दत्ते
भक्तिप्रह्वाब्धिकन्याकरकमलपरिक्षिप्तगन्धाक्षताङ्के ।
संनद्धः सिद्धविद्याधरसुरपरिषत्पक्ष्मलाश्चर्यवीक्षा-
पात्रीभूतः स पत्री भवतु शुभवहोऽस्माकमैक्ष्वाकधार्यः ॥२७॥
ज्वालानिर्दग्धमूलावदलनविगलत्काञ्चनस्तम्भमौलि-
व्यत्यस्तभ्रश्यदत्यद्भुतमणिशिखराक्षिप्तनश्यद्विमानान् ।
सौवर्गान्भार्गवीयप्रचुरतरतपःसाधितान्बाधितारं
लोकानापन्नशोकानपनुदधनुदं नौमि रामस्य बाणम् ॥ २८ ॥
पक्षव्याक्षेपरूक्षस्यदचकितमिषत्सिद्धगन्धर्वयक्षं
धावन्तं देववृन्दं प्रति मम शरणं त्वं भव त्वं भवेति ।