पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
रामबाणस्तवः

मारीचे व्योम्नि धृते भयतरलवधूस्वैरसंश्लेषहृष्य-
त्सिद्धश्रेणीनिबद्धस्तुतिरवतु सदा राघवीयः शरो नः ॥ १६ ॥
भग्नर्षिस्कन्धरन्ध्रस्रुतममितमसृक्पूरमुत्कण्ठितेन
प्रागाकण्ठं निपीतं वमयितुमिव यस्ताटकेयेन गाढम् ।
भ्रामंभ्रामं तमभ्रे भ्रमिरभसदलत्संधिवन्धं विजह्रे
दारिद्र्यं दारयेद्द्राक्स्वयमयमिह मे रामभद्रीयबाणः ॥ १७ ॥
रंहोनिर्धूतमूर्धच्युतमुकुटतटभ्राजिमाणिक्कराजि-
श्रीपुञ्जाव्याजनव्यारुणितपतदसृक्पाटलं यज्ञवाटम् ।
क्रूरोऽयं ताटकेयो व्यतनुत इति तं क्रोधतोऽम्भोधितोये
सद्यः प्रापातयद्यस्तमिषुमिह विभोश्चिन्तयाम्यन्तरङ्गे ॥ १८ ॥
क्षिप्तश्चण्डानिलेनाम्बुद इव गगने येन वेगोत्तरेण
न्यञ्चन्कुत्राप्युदञ्चन्क्वचिदपि विततः क्वापि भग्नः कुहापि ।
मारीचः प्राप वाचप्रचमकरघटानिर्भरं गर्भमब्धेः
कौसल्यासूनुबाणः कलयतु स रुचा पेशलः कौशलं नः ॥१९॥
भ्रश्यन्मारीचपातप्रचलितसलिलोत्पीडनिर्वेलमूर्छ-
त्कल्लोलोत्खातमूलोद्गलिततटमहीरूढतालद्रुजालः ।
वेगोद्भिन्नाम्बुपूरोदरविवृतलुठन्नक्रपाठीनचक्र-
श्चक्रे येनार्णवस्तं मनसि मनुमहे रामकाण्डप्रकाण्डम् ॥ २० ॥
ऊर्ध्वक्षिप्तार्धतारप्रतिभयनयनं वक्रदंष्ट्राग्रदष्ट-
स्थूलास्यप्रान्तलोलद्रसनमुरुनसाप्रस्रुतोद्बुद्बुदास्रम् ।
हृन्मर्मस्फोटकर्मण्यरमुपजनिते येन मारीचसैन्यं
खादभ्रंशीददभ्रं दिशतु स कुशलं दाशरथ्याशुगेशः ॥ २१ ॥
विध्वंसन्ते शकुन्ता युगविगमघनस्फारनिर्घातघोरं
मौर्वीनिर्घोषमुर्वीरुहशिखरगतास्तूर्णमाकर्ण्य यावत् ।
यस्तावत्त्रस्तधावत्सुरजनमभिनद्बाहुमध्यं सुबाहो-
र्ज्वालानिष्पीतकालानलबहलमदं रामबाणं तमीडे ॥ २२ ।।