पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
काव्यमाला ।

घोरज्यारसितेन मानवपतेः कुर्वे धनुर्वेधसा
गेयं सायकभूषमेष मनसि क्षेमाय भीमायतम् ॥ ८३ ॥
लङ्कानाथनिमाथनाथनविधापर्यायपर्यापत-
द्गीर्वाणीमुखवाद्यवाद्यपटुतादुर्वारमौर्वीरवम् ।
वक्रप्रक्रमदुष्टदिष्टदमनं शक्रायुधप्रक्रिया-
निष्णातं रघुमल्लवल्लभधनुर्मुष्णातु तृष्णां मम ॥ ८४ ॥
मौर्वीकर्पणमण्डलीकृतिवशादुर्वीकुमारीपतेः
प्राप्तायाम्बररत्नबिम्बतुलनां सङ्ग्रमरङ्गाङ्गणे ।
दुर्दान्ताशरनाथदुर्दमभुजावीर्याम्बुसंशोषणीं
नाराचद्युतिमञ्जरीं विकिरते चापाय तस्मै नमः ॥ ८५ ॥
चेतश्चातकपोतकल्पचलितानल्पामरालोकित-
श्रीमद्रामशरीरनीरदशचीनाथायुधे धन्वनि ।
पङ्तिस्कन्धशरप्रबन्धदलनाधौरंधरीबन्धुर
ज्याविद्धेषुविमर्ददुर्दिनहरिच्चक्रे मम क्रीडति ॥ ८६ ॥
दृप्यद्राक्षसराजविंशतिभुजीराजीवनालावली-
लावार्धेन्दुमुखेपुमोचनविधिव्याकृष्टमौर्वीरवे ।
रन्ध्रं रुन्धति खस्य भिन्दति भृशं कुम्भांश्च दिक्कुम्भिनां
तुष्टास्तुष्टुविरे पुरायममरास्तं नौमि चापं विभोः ॥ ८७ ॥
चण्डीनाथवलीकृतानि चटुलभ्रूवल्लरीकिंकरी-
भूतामर्त्यकुलानि मृत्युविमुखीकाराट्टहासानि च ।
नाराचेन निराचिकीर्षु समरे शीर्षाणि लङ्कापते-
र्मारीचारिकराब्जचारि महता भावेन सेवे धनुः ॥ ८८ ॥
कल्पान्तोद्भटकालरुद्रवदनव्यादानकेलिस्फुर-
द्दंष्ट्राविक्रमगौरवक्रमगलग्राही जिताहीनिषून् ।
मुञ्चन्पञ्चशरार्तिकीर्तितपरस्त्रीनामनानामुखे
पौलस्त्ये रघुवीरहस्ततुलितश्चापोऽस्तु नस्त्राणदः ॥ ८९ ॥