पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
रामचापस्तवः ।

युद्धे यद्गुणघोषणानिशमनप्रोन्मीलदीर्ष्यामिथः-
श्लिष्यद्दन्तपरम्पराकटकटाकारातिघोरैर्मुखैः ।
पौलस्त्ये दशभिः प्रदर्शितवति क्रोधं वरो धन्विनां
श्लाव्यस्यामुमुदे रिपोरुपगमात्तच्चापमर्च्ये मम ॥ ७७ ॥
प्रत्यग्रप्रणयापराधसमयानानन्दमन्दोदरी-
पादाम्भोरुहताडनैरपि सुखाकुर्वद्भिरप्रस्तुतान् ।
कुर्वद्गर्वितराक्षसेश्वरशिरःस्तोमान्निरस्तोपमा-
ञ्ज्यावल्लिस्तनितेन राघवधनुर्धूनोतु दैन्यं मम ।। ७८ ।।
मा युद्धे प्रवृतो मदुज्झितशरैर्मा तेऽसवो विस्रस-
न्मा रुद्रं हृदि विस्रभः शरणितं मा ते रुचज्जाल्मता ।
इत्याहेव दशास्यमाहवमहीवास्तव्यमस्तव्यय-
ज्यानादेन यदानयेदभिमतं तद्रामभद्रायुधम् ॥ ७९ ॥
स्यादैक्स्वाकसमीकविभ्रमसखं चापं मम श्रेयसे
यस्य ज्यानिनदस्तनूकृतदशग्रीवाट्टहासो रणे ।
लङ्कोद्याननिरुद्धमुग्धवसुधाकन्याकपोलस्थली-
रोमाञ्चव्यतिषङ्गमङ्गलसमारम्भैकभेरीरवः ॥ ८० ॥
कुप्यन्मातलिनुन्नवाहनवहत्संक्रन्दनस्यन्दना-
क्रामच्चक्रसमुत्थभूमिरजसामोघेन मोघा दृशः ।
विभ्राणस्य दशाननस्य वधिरीभावं श्रवोविंशतौ
कुर्वज्ज्यारसितेन कोसलपतेः कोदण्डमीडे रणे ॥ ८१ ॥
कल्पान्तोद्भटचण्डमारुतजवप्राग्भारसंघट्टन-
क्षुभ्यन्नीरदगर्भनिर्भरमिलन्निर्घोषघोरश्रुतिम् ।
ज्यानादं निशमय्य यस्य विवशश्चक्राम मन्दोदरी-
कान्तः शान्तमदो मृधे स जगतां नेतुर्धनुः पातु नः ॥ २ ॥
वैरिक्षारितशक्रविक्रमकथानीशानदाशानन-
श्लाघालाघवखिन्नकिन्नरवधूहर्षप्रकर्षप्रदम् ।