पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० पद्धतिः
१६३
भिक्षाटनकाव्यम्

यस्याः पयोधरयुगेन मनोजशत्रो-
र्वक्षःस्थलेऽपि विहिता रतिमर्दमुद्रा ॥ ३ ॥
सा राजते जगति शैलसुता वधूनां
या जायते हरगलग्रहणोत्सवेषु ।
आनन्दनिर्भरतया मुकुलीकृताक्षी
मोहं गतेरवगरस्य महोष्मणैव ॥ ४ ॥
सैवोत्तमा जगति पर्वतराजपुत्री
पीत्वा यदीयमधरामृतमिन्दुमौलिः ।
आत्मीयमप्रतिमृदुः सह कालकूट-
क्ष्वेडोपतापमखिलं शमयांचकार ॥ ५ ॥
सा पार्वती विजयतां भुवनस्य माता
स्थेमानमाजगतमङ्गलभूषणस्य ।
निश्चित्य या गतभया विदधेऽभ्यनुज्ञां
भर्त्रा कृतस्य गरलाशनसाहसस्य ॥ ६ ॥
सौभाग्यजन्भवसतिः किल शैलकन्या-
कामाभिभूत्युचितमस्य'."संविधातुम् ।
कण्ठे मुहुर्मदनशत्रुमपेतशङ्का
बध्नाति यानि भुजगद्वयशृङ्खलेन ॥ ७ ॥
सा राजते जगति पर्वतराजपुत्री
संभोगकेलिकलहे बहुशः प्रवृत्ते ।
ईशस्य मौलिपरितः परिपूर्णचन्द्रो
यूनां पुराश्रिकषणा कृशमेवमासीत् ॥ ८ ॥
सा पार्वती विजयतां जगदेकमाता
यस्या विहारकलहे सुलभे हरेण ।
पादाम्बुजाश्रयणकाङ्क्षितयैव तस्य
प्रागेव मौलिकुसुमान्मधुपाः श्रयन्ते ॥ ९ ॥