पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
काव्यमाला ।

आमूलकण्टकितपङ्कजनालकल्प-
मद्यापि पश्य चरितार्थमिदं प्रकोष्टम् ॥ १४ ।।
रत्युत्सवाय मम लम्बितमीश्वरेण
वासोऽनिशं रति ....... समागतेन ।
बोधेन तद्गलितमैक्षत हन्त गन्तुं
सोऽयं पुरा न खलु तिष्ठति चन्द्रमौली(लिः) ॥१५॥
निद्रेव जीवितसखीं मनसैव सख्यो
यूयं मृषाप्रणयसंवरमाचरन्त्यः ।
या दुर्लभं गिरिसुतावरमद्य दूरा-
दानीय मे शयनमध्यगतं चकार ॥ १६ ॥
निम्नीकृतस्तनयुगं विहितोपगृह-
स्वप्नागतेन यदहं परमेश्वरेण ।
तेनैव हारगलिताः सखि पश्य मुक्ताः
सत्यं भवत्यनृतमेव कृतं शिवेन ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये स्वप्नोक्तिपद्धतिरेकोनचत्वारिंशत् ।

चत्वारिंशी पद्धतिः ।

स्वप्ने मुहूर्तमनुभूय पिनाकपाणिं
निःशेषलुप्तसरह (?)व्यसना युवत्यः ।
तेनैव नित्यमपि सेवितयौवनाया
गौर्याः प्रशस्तिगिरमात्मगतां शशंसुः ॥ १ ॥
सा शैलराजतनया वनितासु वर्या-
मालभ्य रूढिसुलभे विरहे हरेण ।
पादोदकायितजला मुहुरेव यस्या-
स्तन्मौलिदिव्यतटिनीपत(तट)योनिंपत्य ॥२॥
सा पार्वती स्तनवती भुवने पृ(वृ)थान्याः
क्लेशावहा युवतयः स्तनमुद्वहन्ति ।