पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५८
काव्यमाला ।

रोमाञ्चितैरवयवैः स्फुरिताधरेण
किंचिद्विलग्ननवता च कुचद्वयेन ।
ज्ञात्वा सखी हरसमागमनं चरन्ती
निद्रां स्वकीयहरनिर्वहणां ननन्द ॥ ५ ॥
काचित्कथंचन निशाविरतिप्रसुप्त्या
संमीलिताक्षियुगलापि शिवं ददर्श ।
या पुण्डरीकवदना च मृगायताक्षी
तस्या विरुद्धचरितास्पदतापि युक्ता ॥ ६ ॥
साक्षात्कृते पशुपतौ न कदापि शोच्या
जायेत मीलनदशा नियतं नराणाम् ।
यदृृष्टवद्गिरिशमह्नि तदायताक्ष्या
यत्नं विनैव निशि मीलितमक्षियुग्मम् ॥ ७ ॥
जातप्रबोधजनलभ्यनिजानुभूतिं
सुप्यै(प्त्वै)व काप्यनुबभूव शिवं वियुक्ता ।
स्नेहः शिवे यदि भवेदमितो नराणां
मार्गेण विध्यति न कर्षवतापि शंभुः ॥ ८ ॥
यत्सुप्तिभङ्गकरणं स्मृतिभिर्निषिद्धं
तेनैव सर्वविषयं विरहार्तलक्ष्यम् ।
सख्या प्रभातमिति कापि निबोधयन्त्या
हा हन्त भञ्जितशिवानुभवा बभूव ॥ ९ ॥
उद्दिश्य कापि विधुरा गिरिशानुभूतिं
सुप्त्यैव लोचननिमीलनमाचकाङ्क्षे ।
तस्यास्तदेतदुचितं खलु येन सर्वे
पश्यन्ति तं शममना(नो)विनिमीलिताक्षः(क्षा) ॥१०॥
आलिङ्गनं किमथवाधरपानमस्य
मन्दस्मितं किमुत वा स्थितिरेव तृष्णीम् ।