पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ पद्धतिः
१५७
भिक्षाटनकाव्यम्

स्त्रीजातिमात्रहृदयार्तिकके वृषाङ्के
कंदर्पदौत्यमनुतिष्ठति केवलस्याः(१) ।
क्रीडाशुकः शरणमन्यतमो ममायं
लोके पुनः फलितमात्रवचान(?) दूतः ॥ १४ ॥
साक्षात्पुरस्थितमपोह्य वृषाङ्कमद्य
चित्रे निवेश्य परिरम्भणमाचरन्ती ।
भित्त्वा विहारसरसी परिवृद्धपूरां
वाञ्छामि गाहितुमहं मृगतृष्णिकायाम् ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः सप्तत्रिंशत् ।

अष्टत्रिंशी पद्धतिः ।

नीरन्ध्रमुक्तशरपीडितमानसाना-
मेणीदृशामकरुणेन मनोभवेन ।
विश्लेषसुप्तिविषयाणि निशाविरामे
जातानि यानि चरितानि वदामि तानि ॥ १ ॥
निद्रावती गिरिजया कृतदेहसंधि-
रप्याजगाम विधुरां स्वयमिन्दुमौलिः ।
अप्यन्ययोषिदुपधानपदे निरुद्ध-
प्रीत्या ध्रुवं प्रभुजनो भव(ज)तेऽन्यनारीम् ॥ २ ॥
वामे विधौ भवति बन्धुजनोऽपि वैरी
सुप्तां कथंचिदपि जीवसखीं निशान्ते 1
मूर्छाभयाद्विरहिणीं प्रतिबोधयन्ती
विच्छन्ति (?)माशु विदधे हरसंगमस्य ॥ ३ ॥
लाभं परार्थमपरत्र नयेद्विधाता
सुप्त्यागते विधुरया गिरिशे कयाचित् ।
गाढोपगूहनविधेरसकृत्कृतस्य
पार्श्वोपधातमभवत्सहसैव पात्रम् ॥ ४ ॥