पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
काव्यमाला ।

षट्त्रिंशी पद्धतिः।

विश्लेषितैर्युवतयो विरहे त्रियामं
निन्युः सुदुःसहवियोगनितान्तदीर्घाम् ।
तेषां विचक्षणवचस्युपवर्णनेन
वाणीमिमां वयममी चरितार्थयामः ॥ १ ॥
कस्याश्चिदिन्दुमलयानिलचक्रवाक-
केङ्कारसंतमसकैरवसौरभाद्यैः ।
विश्लेषवंशमथनैर्निचिते निशीथे
मूर्छाप्रसादकृत एव हि जीवलाभः ॥ २ ॥
प्रत्यग्रपुष्परचिते शयने न शिश्ये
नाश्लिष्ट (2) कुत्र च न चैव सखीं बभाषे ।
नापि क्वचिस्थितिमती न ययौ न विद्मः
किं किं विधाय विधुरा रजनीमनैपीत् ॥ ३ ॥
चन्द्रक्षयं भव मुहुर्भुजगामिषस्य (?)
भूयाः कलङ्कनिलयो जलतां भजस्व ।
कस्याश्चिदित्यपुनरुक्तमुदीरिताभिः
शापोक्तिभिः सह निशाविरतिं प्रपेदे ॥ ४ ॥
तच्च्चिन्तनैस्तदनुबन्धिकथाप्रसङ्गै-
स्तत्संगमानुगुणकर्मनिरूपणाभिः ।
तन्नामभाषिशुकसंहननैश्च काचि-
द्रात्रिं निनाय रहिता परमेश्वरेण ॥ ५ ॥
पर्याप्तशीकर" "मण्डलतालवृन्ता
नीरन्ध्रसंस्तवदृढप्रणया सखीव ।
कस्याश्चिदीशविरहव्यसने प्रवृत्ते
पार्श्वं न जातु विजहौ विपुला त्रियामा ॥ ६ ॥
संतप्तमूर्तिरतिशीतलरांजरम्भा
शंभोस्ततार रजनीचरितं वियुक्ता ।