पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४६
काव्यमाला ।

एणीदृशां हरभयाप्लवकाङक्षिणीनां
दौत्यत्वयानि(?) चरितानि जनः शृणोतु ॥ १ ॥
कामातुरो नहि निरूपयति स्नदैन्यं
काचित्समस्तवनिताजनपूजनीया ।
दूत्यान्मुहुः सकृदपि त्रिपुरान्तकस्य
कण्ठग्रहाय" वरणं चकार ॥ २ ॥
यः पाण्डुरस्त्वयमथाब्धिविषं निली(पी)य
नैल्यं बिभर्ति भुवनत्रयरक्षणाय ।
दौत्यं तथाविधतथा(या)र्हसि शंकरस्य
तस्येव कापि नवमम्बुधरं ययाचे ॥ ३ ॥
कल्याणबान्धवपरो जगतीह मातु-
रन्यो जनोऽयमिति जीवसखीषु रूक्षा ।
काचित्स्वमातरमयाचत शंभुदौत्यं
किं नैव कारयति कामभवो विकारः ॥ ४ ॥
सामोक्तिभिः प्रियसखीमनुचर्य काचि-
द्दौत्याय वाच्यमनया परिपृच्छ्यमाना ।
तूष्णीमजातनिजसंगमने वृषाङ्के
वक्तव्यहानिपरिदूयमना बभूव ॥ ५ ॥
यामेव जीवितसखीं परिरभ्य गाढ-
मीशोपकण्ठगमने त्वरयांचकार ।
तां प्रस्थितां सपदि वीक्ष्य रुरोध काचि-
दीशान्तिकान्यवनितागमनासहिष्णुः ॥ ६ ॥
संदेशगर्भितपुटे स्मरलेखपात्रे
विन्यस्तसान्द्रनवचन्दनपङ्कमृत्के ।
शंभोभविष्यति करप्रणयीति काचि-
न्मुद्रां व्यथाविरहिणी कुचचूचुकेन ॥ ७ ॥